171

अत्र प्राप्तौ निवारणं निषेधः ॥

प्राप्तौ निवारणमिति । रोषेण प्रसजत्प्रतीपाचरणान्निवार्यते ॥

अधिकारोक्तिर्यथा—

‘भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ ४९ ॥’

अत्र विधिनिषेधज्ञानाद्विधिनिषेधयोग्यताधिकारः ॥

विधिनिषेधज्ञानादिति । विहितनिषिद्धक्रियाज्ञानेन तत्फलसंबन्धयोग्यत्वमधिकारः । शुश्रूषस्वेति, भूयिष्ठं भव दक्षिणेति द्वे विहिते । मा स्म प्रतीपं गम इति, भोगेष्वनुत्सेकिनीति द्वे निषिद्धे । विधिनिषेधयोग्यता विधिनिषेधफलसंबन्धयोग्यत्वम् । गृहिणीपदप्राप्तिर्विहितक्रियाफलम् । कुलाधीभवनं तु निषिद्धक्रियाफलमिति ॥

विकल्पोक्तिर्यथा—

‘एको नेता क्षत्रियो वा द्विजो वा एका विद्याध्यात्मिकी वा त्रयी वा ।
एका भार्या वंशजा वा प्रिया वा एकं मित्रं भूपतिर्वा यतिर्वा ॥ ५० ॥’

सोऽयं जातिक्रियागुणद्रव्यावलम्बी चतुर्विधो विकल्पः ॥

सोऽयमिति । जात्यादय एव पदार्थास्ते च विकल्पन्ते । कुतो जात्यादिना तव्द्यवस्था । वाशब्दः पाक्षिकभावमाहेति भावाभावसंकरः ॥

नियमोक्तिर्यथा—

‘विवादोऽपार्थ एवायं पार्थ एव धनुर्धरः ।
यो न केवलमात्मीयैः परैरप्यभिनन्द्यते ॥ ५१ ॥’

सोऽयमयोगान्ययोगात्यन्तायोगव्यवच्छेदलक्षणस्त्रिप्रकारो नियमः ॥

अपार्थ एवेति । विशेषणसंगत एवकारः केवलविशेषणयोगस्यासंभवे व्युत्पत्तिवशेन तदभावं व्यवच्छिन्दन्योगव्यावृत्ताववतिष्ठते । पार्थ एवेति विशेष्यसंगत एवशब्दस्तदन्यस्य धनुर्धरतारूपं विशेषणं व्यावर्तयन्नन्ययोगव्यवच्छेदद्योतको भवति । केवलमिति अभिनन्दनस्य नायोगं नवान्ययोगं व्यवच्छिनत्ति, किं तु तत्संबन्धं बोधयन्नात्यन्तिकमयोगमत्यन्तायोगव्यवच्छेदोऽभिधीयते ॥