175

तन्नागेति । नागेन्द्रकरवदूरुः पार्वतीभागे, दोर्बाहुश्च देवभागे, करिकुम्भवत्पीनः स्तनो देवीभागे, अंसः स्कन्धश्च देवभागे एवंविधत्वत्पितुरीश्वरस्य वपुस्त्वन्मुखे । एकविषाणतया करिकरिणीसमाहारात्मनि वीक्षामह इति वाराह्याः परिहासोक्तिः । वाराही वराहप्रकृतिभूतो मातृविशेषः । इभवदनो विनायकः । स्त्रीत्वपुंस्त्वयोः परस्परपरिहारेणोपलम्भाद्विरुद्धयोरपि त्वत्पितुरित्यनेन स्तुतिनिन्दयोः प्रतिषेधेन रम्यताभीषणतयोर्भागव्यवस्थया मुखवपुषोः सादृश्येनाभितोऽभिप्रायप्रतिबिम्बितेन योजना विहितेति तत्प्रतिपादकानां पदानामेकवाक्यतासिद्धिः । तदिदमाह—अत्रेति ॥

वाक्यगर्भादिविषया वाक्ययुक्तिर्यथा—

‘दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥ ५५ ॥’

अत्र वदन्त एव हि वयं रोमाञ्चिताः पश्यतेति वाक्यगर्भः । तत्रैव पश्यतेति वाक्यान्तरे भावाविष्कारवाचा निगर्भः । किमपरं रामाय तस्मै नम इति वाक्यसंवृत्तिः । यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतमिति वाक्यसमुच्चयः । सेयमेतेषां योजनाद्वाक्यविषया युक्तिर्भवति ॥

दिङ्मातेति । जातिक्रियेत्यादिना क्रमेण विरोधप्रसिद्धेर्गुणविरोधमुल्लङ्घ्य क्रियाविरोधो व्याख्यातः । आघाटः सीमा । गर्भो विवृतपूर्वस्तत्रैवाश्चर्यरसाविष्टब्धस्य वक्तुः पश्यतेति वाक्यान्तरं निगर्भः । गर्भवाक्येन समर्प्यमाणप्रकृतरसान्वयिनि रसे प्रकर्षाधायको निगूढो गर्भो निगर्भ इत्युच्यते । तदिदं भावाविष्कारवाचीत्युक्तम् । विप्राय प्रतिपाद्यते संपन्ना तैरभुज्यत इत्यादि वक्तव्ये किमपरमित्यस्य संवृत्तित्वेन योजना । एवं हि कियदस्य महानुभावस्य तादृशाचरितं प्राप्यते तदिह मौनमेवोचितमिति भूयान्प्रकर्षोऽवसीयते । ‘यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम्’ इति वाक्यद्वयस्य पूर्ववाक्यगततर्कार्थसमुच्चयवाचिना चकारेण योजना व्यक्तैव । एवमादय इति । तद्यथा—वीथ्यङ्गानि त्रयोदशप्रस्तावनापरिचेयानि । संध्यङ्गानि विलासाद्यानि चतुःषष्टिसंधयश्च रूपकावयवभूता मुखप्रतिमुख-