उक्तीति । उक्तिरभिधानमुच्चारणक्रिया लक्षणक्रिया सा सर्ववाक्यसाधारणी कथमलंकार इत्याशङ्क्य प्रकारपदम् । प्रकारो भङ्गीरूपता । लौकिकशास्त्रीयवचनातिगामी विशेषः । स एव कैश्चिदव्याप्तिमननुसंदधानैरलंकारसामान्ये उक्तः । उक्तिरूपत्वाविशेषे कथमयमेव संगच्छतामित्यतो विभागप्रदर्शनव्याजेन विषयविशेषादेव तद्रूपतामुपपादयति—संभव इत्यादि । तत्र बहिरसंभाव्यमानस्यापि प्रतिभानिर्भितचित्रतुरगवत्प्रतीतिः संभवस्तामर्पयन्ती संभावनात्मिका भणितिः । सैव हि ‘किंत्वस्ति काचिदपरापि पदानुपूर्वी यस्यां न किंचिदपि किंचिदिवावभाति’ इति न्यायेन तत्तदर्थनिर्माणप्रवीणा ‘यथास्मै रोचते विश्वं तथैव परिवर्तते’ इति व्यवहारकारणं भवतीति तथाविध एव विषये शास्त्रप्रसिद्धप्रकारवैपरीत्येन बाधवर्णनमसंभावना । तदुच्यते—

‘इह ते जअंति कइणो जअमिण मोजाणसअलपरिणामम् ।
वाआसु ठिअं दीसइ आमोअ घणं व तुच्छं व ॥’

अतएवेयं निषेधरूपा तज्जातीयव्यावृत्तो धर्मो विशेषस्तं क्वचिद्विदधाना कवेरभिप्रायविशेषमर्पयन्ती ‘निषेधप्रसङ्गे विशेषभणितिर्विधिरूपा भवति’ इति तामवलम्बमाना चमत्कारकारिणी विशेषे पर्यवस्यन्ती वर्णना पल्लवप्रसङ्गे संकोचमवगाहमाना विधौ निषेधरूपा पर्यवस्यति । अतर्कितोपनतं विस्मयजनकमाश्चर्यं तस्य निषेधे विधातव्ये यत्किंचिद्विधानं तदाश्चर्यरूपतामन्तरेण काव्यकक्षामारोढुं न क्षमत इति नूनमनया विस्मयार्पणमेव सर्वस्वभूतमवलम्बनीयमिति निषेधविधि-178 प्रसङ्गे निषेधरूपा भणितिर्बहिरसंभाविनः क्वचिदसतो विशेषस्योत्प्रेक्षाकल्पना । तामाश्रयन्ती विधाननिषेधमात्रेण चरितार्था किंचिद्विशेषं विदधातीति विधिनिषेधप्रसङ्गे सामान्यतः प्रतिषेधति विशेषतश्च विधत्त इति निषेधविधिरूपा कल्पना भणितिः ॥