Adhikāra 61

448
लङ्घनालेपनस्वेदशिराव्यधविरेचनैः ॥
उपाचरेदभिष्यन्दानञ्जनाश्चोतनादिभिः ॥ १ ॥
अक्षिकुक्षिभवा रोगाः प्रतिश्यायव्रणज्वराः ॥
पञ्चैते पञ्चरात्रेण रोगा नश्यन्ति लङ्घनात् ॥ २ ॥
स्वेदः प्रलेपस्तिक्तान्नं सेको दिनचतुष्टयम् ॥
लङ्घनं चाक्षिरोगाणामामानां पाचनानि षट् ॥ ३ ॥
श्रीवासातिविषालोध्रैश्चूर्णितैरल्पसैन्धवैः ॥
अव्यक्तेऽक्षिगदे कार्यं प्लोतस्थैर्गुण्डनं बहिः ॥ ४ ॥
449
अञ्जनं पूरणं क्वाथपानमामे न शस्यते ॥
यद्यक्षिरोगं मन्येत सरुजं व्यक्तलक्षणम् ॥
वेदनानिग्रहार्थं तु कुर्यादाश्चोतनं सदा ॥ ५ ॥
आश्चोतनं मारुतजे क्वाथो बिल्वादिभिर्हितः ॥
कोष्णः सैरण्डबृहतीतर्कारीमधुशिग्रुभिः ॥ ६ ॥
एरण्डपल्लवे मूले त्वचि चाऽऽजं पयः शृतम् ॥
कण्टकार्याश्च मूलेषु सुखोष्णं सेचनं हितम् ॥ ७ ॥
450
ततः संपक्वदोषस्य प्राप्तमञ्जनमाचरेत् ॥ ८ ॥
451
हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते ॥
पूर्वाह्णे वाऽपराह्णे च ग्रीष्मे शरदि चेष्यते ॥
वर्षास्वनभ्रे नात्युष्णे वसन्ते च सदैव हि ॥ ९ ॥
हरेणुमात्रां कुर्वीत वर्ति तीक्ष्णाञ्जने भिषक् ॥
प्रमाणं मध्यमेऽध्यर्धं द्विगुणं च मृदौ भवेत् ॥ १० ॥
452
विडङ्गमात्रं त्ववरं मध्यं द्वावुत्तमं त्रयम् ॥
रसक्रियायां वर्तीनां प्रमाणं परिकीर्तितम् ॥ ११ ॥
वैरेचनिकचूर्णं तु द्विशलाकं विधीयते ॥
मृदौ तु त्रिशलाकं स्याच्चतस्रः स्नैहिकेऽञ्जने ॥ १२ ॥
सुवर्णरूप्यताम्रायःकांस्याश्मास्थिमयाः कृताः ॥ १३ ॥
शलाका अञ्जने शस्ता अष्टाङ्गुलमिताः शुभाः ॥
वक्त्रयोर्मुकुलाकाराः कलायपरिमण्डलाः ॥ १४ ॥
453
वामे करतले कृत्वा सजलं निकषोपलम् ॥
दक्षिणेनाञ्जनं गृह्य करेण निकषेच्छनैः ॥ १५ ॥
तेन कल्केन मतिमाञ्शलाकाग्रं प्रलिप्य च ॥
उत्थाप्य चोत्तरं वर्त्म वामेनाङ्गुष्ठपर्वणा ॥ १६ ॥
वर्त्मशुक्लान्तरे चाल्पं(ल्पां) शलाकां सुप्रवर्तयेत् ॥
प्रथमं सव्यमञ्ज्यात्तु पश्चादञ्ज्यात्तु दक्षिणम् ॥
शलाकाङ्गुष्ठदेशिन्या न चान्तर्नयनं स्पृशेत् ॥ १७ ॥
बृहत्येरण्डमूलत्वक्शिग्रुमूलं ससैन्धवम् ॥
अजाक्षीरेण पिष्टं स्याद्वर्तिर्वाताक्षिरोगनुत् ॥ १८ ॥
हरिद्रे मधुकं द्राक्षा देवदारु च पेषयेत् ॥
आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम् ॥ १९ ॥
प्रपौण्डरीकयष्ट्याह्वनिशामलकपद्मकैः ॥
शीतैर्मधुसमायुक्तैः सकः पित्ताक्षिरोगनुत् ॥ २० ॥
द्राक्षामधुकमञ्जिष्ठाजीवनीयैः शृतं पयः ॥
प्रातराश्चोतनं पथ्यं शोथशूलाक्षिरोगिणाम् ॥ २१ ॥
कफजे लङ्घनं स्वेदो नस्यं तिक्तादिभोजनम् ॥
तीक्ष्णैः प्रधमनं कुर्यात्तीक्ष्णैश्चैवोपनाहनम् ॥ २२ ॥
फणिज्जकास्फोतकपित्थबिल्वपत्तूरपीलूसुरसार्जभङ्गैः ॥
स्वेदं विदध्यादथवाऽनुलेपं बर्हिष्ठशुण्ठीसुरदारुकुष्ठैः ॥ २३ ॥
454
शुण्ठीनिम्बदलैः पिण्डः सुखोष्णैः स्वल्पसैन्धवैः ॥
धार्यश्चक्षुषि संक्षेपाच्छोफकण्डूव्यथापहः ॥ २४ ॥
वल्कलं पारिजातस्य तैलकाञ्जिकसैन्धवैः ॥
कफजाताक्षिशूलघ्नं तरुघ्नं कुलिशं यथा ॥ २५ ॥
ससैन्धवं लोध्रमथाऽऽज्यभृष्टं सौवीरपिष्टं सितवस्त्रबद्धम् ॥
आश्चोतनं तन्नयनस्य कुर्याद्दाहं च कण्डूं च रुजं च हन्यात् ॥ २६ ॥
455
लोध्रं सर्पिषि संपक्वं खदिराजाजिसर्षपैः ॥
नागरारिष्टसिन्धूत्थैर्युक्तं दृषदि चूर्णितम् ॥ २७ ॥
सिते वाससि तद्बद्धं न्यसेत्स्वच्छाम्लकाञ्जिकैः ॥
तेनाक्ष्णोः पूरणं कार्यं कण्डूरोगाश्रुघर्षजित् ॥ २८ ॥
निम्बस्य पत्रैः परिलिप्य लोध्रं स्वेदाग्निना चूर्णमथापि कल्कम् ॥
आश्चोतनं मानुषदुग्धयुक्तं पित्तास्रवातापहमग्त्यमुक्तम् ॥ २९ ॥
स्निग्धोष्णैर्वातजः पित्तरक्तजो मृदुशीतलैः ॥
तीक्ष्णरूक्षोष्णविशदैः प्रणश्यति कफात्मकः ॥ ३० ॥
तीक्ष्णोष्णमृदुशीतानां व्यत्यासात्सांनिपातिकः ॥
तस्य कालो दिवा सर्वो यामश्च प्रथमो निशि ॥ ३१ ॥
अथ वाऽऽश्चोतनं यावद्दीयमानं सहेन्नरः ॥
अहोरात्रे तच्च सकृद्द्विस्त्रिर्वा देयमुच्यते ॥ ३२ ॥
लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ॥
आश्चोतने प्रयोक्तव्या द्वादशैव तु रोपणे ॥ ३३ ॥
456
सम्यगाश्चोतने युक्ते वैमल्यं नेत्रयोर्भवेत् ॥
वेदनोपशमो व्याधिनिवृत्तिर्नेत्रलाघवम् ॥ ३४ ॥
मिथ्याकृते व्याधिवृद्धिर्गौरवाविलनेत्रता ॥
अतीवाऽऽश्चोतिते नेत्रे रागदोषपरिस्रवाः ॥ ३५ ॥
तिरीटत्रिफलायष्टीशर्कराभद्रमुस्तकैः ॥
पिष्टैः शीताम्बुना सेको रक्ताभिष्यन्दनाशनः ॥ ३६ ॥
कसेरुमधुकाभ्यां च चूर्णमम्बरसंवृतम् ॥
न्यस्तमप्स्वान्तरिक्षासु हितमाश्चोतनं भवेत् ॥ ३७ ॥
तिक्तस्य सर्पिषः पानं बहुशश्च विरेचनम् ॥ ३८ ॥
अक्ष्णोरपि समन्ताच्च पातनं च जलौकसाम् ॥
पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः ॥ ३९ ॥
शिग्रुपत्ररसैः सेकः सर्वनेत्ररुजापहः ॥
शिग्रुपल्लवनिर्यासः सुघृष्टस्ताम्रसंपुटे ॥
घृतेन धूपितो हन्ति शोथघर्षाश्रुवेदनाः ॥ ४० ॥
457
पथ्यागैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकैः ॥
जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः ॥ ४१ ॥
पिष्टैर्निम्बस्य पत्रैरतिविमलतरैर्जातिसिन्धूत्थमिश्रै-
रन्तर्गर्भं दधाना पटुतरगुटिका पिष्टलोध्रेण भृष्टा ॥
तूलैः सौवीरसान्द्रैरतिशयमृदुभिर्वेष्टिता सा समन्ता-
च्चक्षुष्कोपोपशान्तिं चिरमुपरिदृशो भ्राम्यमाणा करोति ॥ ४२ ॥
यथास्वमौषधं चूर्णं मात्रां बदरसंमिताम् ॥ ४३ ॥
विशुद्धे मृदुनि क्षौमे बद्ध्वा चाक्षि स्पृशेत्पुनः ॥
तेन दाहाश्रुपाकाश्च रागः शोफश्च शाम्यति ॥ ४४ ॥
बिल्वपत्ररसः पूतः साज्यसिन्धुकणान्वितः ॥
शुल्बे वराटिकाघृष्टो धूपितो गोमयाग्निना ॥ ४५ ॥
पयसाऽऽलोडितश्चाक्ष्णोः पूरणाच्छोफशूलनुत् ॥
अभिष्यन्देऽधिमन्थे च स्रावे रक्ते च शस्यते ॥ ४६ ॥
सलवणकटुतैलं काञ्जिकं कांस्यपात्रे
घनमुपलसुघृष्टं धूपितं गोमयाग्नौ ॥
सपवनकफकोपं छागदुग्धावसिक्तं
जयति नयनशूलं स्रावशोफं सरागम् ॥ ४७ ॥
अयमेव विधिः सर्वो मन्थादिष्वपि शस्यते ॥
अशान्तौ सर्वथा मन्थे भ्रुवोरुपरि दाहयेत् ॥ ४८ ॥
458
जलौकःपातनं संधौ नेत्रपाके विरेचनम् ॥
शिराव्यधं वा कुर्वीत सेकालेपांश्च शुक्रवत् ॥ ४९ ॥
विभीतकशिवाधात्रीपटोलारिष्टवासकैः ॥
क्वाथो गुग्गुलुना पेयः शोफशूलाक्षिपाकहा ॥ ५० ॥
पिल्लं च सव्रणं शुक्रं रागादींश्चापि नाशयेत् ॥
एतैरपि घृतं पक्वं रोगांस्तान्नाशयेद्बहून् ॥ ५१ ॥
आटरूषाभयानिम्बधात्रीमुस्तांक्षंकूलकैः ॥
रक्तस्रावं कफं हन्ति चक्षुष्यं वासकादिकम् ॥ ५२ ॥
पथ्यास्तिस्रो विभीतक्यः षड्धात्र्यो द्वादशेति च ॥
प्रस्थार्धसलिले क्वाथमष्टभागावशेषितम् ॥ ५३ ॥
पीत्वाऽभिष्यन्दमास्रावं रागं च तिमिरं जयेत् ॥
संरम्भरागशूलाश्रुनाशनं दृक्प्रसादनम् ॥ ५४ ॥
नेत्रे त्वभिहते कुर्याच्छीतमाश्चोतनादिकम् ॥
दृष्टिप्रसादजननं विधिमाशु कुर्या-
त्स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः ॥ ५५ ॥
स्वेदाग्निधूमभयशोकरुजोपतापै-
रभ्याहतामपि तथैव भिषक्चिकित्सेत् ॥ ५६ ॥
459
आगन्तुदोषं प्रसमीक्ष्य कार्यं वक्त्रोष्मणा स्वेदितमादितस्तु ॥
आश्चोतनं स्त्रीपयसा च सद्यो यच्चापि पित्तक्षतजापहं स्यात् ॥ ५७ ॥
सूर्योपरागानलविद्युतादिविलोकनेनोपहतेक्षणस्य ॥
संतर्पणं स्निग्धहिमादि कार्यं सायं निषेव्यास्त्रिफलाप्रयोगाः ॥ ५८ ॥
निशाब्दत्रिफलादार्वीसितामधुकसंयुतम् ॥
अभिघाताक्षिशूलघ्नं नारीक्षीरेण पूरणम् ॥
इत्कटाङ्कुरजस्तद्वत्स्वरसो नेत्रपूरणम् ॥ ५९ ॥
आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च ॥
जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत् ॥
सर्वनेत्राभिघातेषु सर्पिरेतत्प्रशस्यते ॥ ६० ॥
प्रथमे पटले दोषः साध्यः स्यादभिघातजः ॥
द्वितीये पटले याप्यस्तृतीये च न सिध्यति ॥ ६१ ॥
सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम् ॥
स्तन्योदकार्धं कर्तव्यं शुष्कपाके तदञ्जनम् ॥ ६२ ॥
460
वाताभिष्यन्दवच्चान्यवाते मारुतपर्यये ॥
पूर्वभक्तहितं सर्पिः क्षीरं वाऽप्यथ भोजने ॥ ६३ ॥
वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि ॥
सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत् ॥ ६४ ॥
अम्लाध्युषितशान्त्यर्थं कुर्याल्लेपांश्च शीतलान् ॥ ६५ ॥
तैल्वकं त्रैफलं सर्पिर्जीर्णं वा केवलं पिबेत् ॥
शिराव्यधं विना कार्यः पित्तस्यन्दहरो विधिः ॥ ६६ ॥
सर्पिः क्षौद्रं चाञ्जनं स्याच्छिरोत्पातस्य भेषजम् ॥
तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम् ॥ ६७ ॥
शिराहर्षेऽञ्जनं कुर्यात्फाणितं मधुसंयुतम् ॥
मधुना तार्क्ष्यशैलं वा कासीसं वा समाक्षिकम् ॥
वेतसाम्लं स्तन्ययुक्तं फाणितं तु ससैन्धवम् ॥ ६८ ॥
461
गव्यक्षीरोत्थितं सर्पिस्तर्पणार्थं विधीयते ॥
दृष्टिप्रसादनं श्रेष्ठं तिमिरस्यापकर्षणम् ॥ ६९ ॥
अभिष्यन्दाधिमन्थाभ्यां कर्षतेऽक्ष्णि बलावहम् ॥
दोषानुत्सादयत्याशु तथैवाश्रु नियच्छति ॥ ७० ॥
उत्तानशायिनः कार्यं निश्चलस्य यथासुखम् ॥ ७१ ॥
प्रतिसूर्याग्निरहिते नीरजोधूममारुते ॥
गृहे सुखे निराबाधे वीतक्रोधभयस्य च ॥ ७२ ॥
माषपिष्टमयाधारं दृढीकृत्यापरिस्रवम् ॥
अर्धाङ्गुलोर्ध्वविस्तारं मूले द्व्यङ्गुलमेव च ॥ ७३ ॥
प्रमाणेनाक्षिकोशस्य यथा स्यान्नाक्षिरोधकृत् ॥
पक्ष्माणि यावन्मज्जन्ति रोमान्तादाभ्रुवस्तथा ॥ ७४ ॥
ततो वस्त्रेण पीतेन नीलेन हरितेन वा ॥
पत्रैर्वाऽऽच्छाद्य नयने ततः पश्येद्यथासुखम् ॥ ७५ ॥
वाचां सहस्रमात्रं वा धारयेन्मारुतामये ॥
पित्तजे रक्तजे चाष्टौ कफजे षट्शतानि च ॥
संनिपातात्मके सप्त पञ्च स्वस्थविधौ तथा ॥ ७६ ॥
462
ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षि शोधयेत् ॥
प्रायोगिकेण धूमेन कफमस्य बिशोधयेत् ॥ ७७ ॥
स्वस्थवृत्ते विधातव्यं द्व्यन्तरं तर्पणं भवेत् ॥
अहन्यहनि वातोत्थे पित्तरक्ते दिनान्तरम् ॥ ७८ ॥
तर्पणं संनिपातोत्थे द्व्यन्तरं त्र्यन्तरं कफे ॥
कदुष्णं कफवाय्वोस्तु शीतलं पित्तशोणिते ॥ ७९ ॥
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम् ॥ ८० ॥
निर्वृतिर्व्याधिसंशान्तिः क्रियालाघवमेव च ॥
तर्पणे तृप्तिलिङ्गानि सम्यगेतानि लक्षयेत् ॥ ८१ ॥
व्रणशुक्रप्रशान्त्यर्थं षडङ्गं गुग्गुलुं पिबेत् ॥
कतकस्य फलं शङ्खं तिन्दुकं रूप्यमेव च ॥
कांस्ये निघृष्टं स्तन्येन क्षतशुक्रार्तिरोगजित् ॥ ८२ ॥
चन्दनं गैरिकं लाक्षा मालतीकलिकान्विता ॥
व्रणशुक्रहरा वार्तिः शोणितस्य प्रसादनी ॥ ८३ ॥
463
शिरया वा हरेद्रक्तं जलौकाभिश्च लोचनात् ॥ ८४ ॥
एकं वा पुण्डरीकं च च्छागक्षीरेण सेवितम् ॥
रागाश्रुवेदना हन्यात्क्षतपाकात्ययाजकाः ॥ ८५ ॥
धात्रीफलं निम्बकपित्थपत्रं यष्ट्याह्वलोध्रं खदिरस्तिलाश्च ॥
क्वाथः सुशीतो नयने निषिक्तः सर्वप्रकारं विनिहन्ति शुक्रम् ॥ ८६ ॥
तुत्थकं वारिणा युक्तं शुक्रं हन्त्यक्षिपूरणात् ॥
समुद्रफेनदक्षाण्डत्वक्सिन्धूत्थैः समाक्षिकैः ॥
शिग्रुबीजयुतैर्वर्तिः शुक्रघ्नी शिग्रुवारिणा ॥ ८७ ॥
दक्षाण्डत्वक्शिलाशङ्खकाचचन्दनगैरिकैः ॥
तुल्यैरञ्जनयोगोऽयं पुष्पार्मादिविलेखनः ॥ ८८ ॥
शिरीषबीजमरिचपिप्पलीसैन्धवैरपि ॥
शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन च ॥ ८९ ॥
गृहीत्वा नक्तमालस्य फलचूर्णं सुभावितम् ॥ ९० ॥
रसेन हि पलाशस्य कुसुमोत्थेन धीमता ॥
वर्तिर्नेत्राञ्जने योज्या अशेषकुसुमापहा ॥ ९१ ॥
सैन्धवत्रिफलाकृष्णाकटुकाशङ्खनाभयः ॥
सताम्ररजसो वर्तिः पिष्टा शुक्रविनाशनी ॥ ९२ ॥
464
क्षुण्णपुंनागपत्रेण परिभावितवारिणा ॥
श्यामाक्वाथाम्बुना वाऽथ सेचनं कुसुमापहम् ॥ ९३ ॥
शङ्खस्य भागाश्चत्वारस्ततोऽर्धेन मनःशिला ॥
मनःशिलार्धं मरिचं मरिचार्धेन सैन्धवम् ॥ ९४ ॥
एतच्चूर्णाञ्जनं श्रेष्ठं शुक्रलेखनमुत्तमम् ॥
पिच्चटे मधुना योज्यमर्बुदे मस्तुना तथा ॥ ९५ ॥
ताप्यं मधुकसारो वा बीजं चाक्षस्य सैन्धवम् ॥
मधुनाऽञ्जनयोगाः स्युश्चत्वारः शुक्रशान्तये ॥ ९६ ॥
वटक्षीरेण संयुक्तं श्लक्ष्णं कर्पूरजं रजः ॥
क्षिप्रमञ्जनतो हन्ति शुक्रं चापि घनोन्नतम् ॥ ९७ ॥
तालस्य नारिकेलस्य तथैवारुष्करस्य च ॥
करीरस्य च वंशानां कृत्वा क्षारं परिस्रुतम् ॥ ९८ ॥
करभास्थिकृतं चूर्णं क्षारेण परिभावितम् ॥
सप्तकृत्वोऽष्टकृत्वो वा सूक्ष्मचूर्णं तु कारयेत् ॥ ९९ ॥
एतच्छुक्रेष्वसाध्येषु कृष्णीकरणमुत्तमम् ॥
यानि शुक्राणि साध्यानि तेषां परममञ्जनम् ॥ १०० ॥
465
पटोलं कटुकां दार्वीं निस्बं वासां फलत्रिकम् ॥
दुरालभां पर्पटकं त्रायन्तीं च पलोन्मिताम् ॥ १०१ ॥
प्रस्थमामलकानां च क्वाथयेन्नल्वणेऽम्भसि ॥
पादशेषे रसे तस्मिन्घृतप्रस्थं विपाचयेत् ॥ १०२ ॥
कल्कैर्भूनिम्बकुटजमुस्तयष्ट्याह्वचन्दनैः ॥
सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्रयोर्हितम् ॥ १०३ ॥
घ्राणकर्णाक्षिवर्त्मत्वङ्मुखरोगव्रणापहम् ॥
कामलाज्वरवीसर्पगण्डमालाहरं परम् ॥ १०४ ॥
कृष्णाविडङ्गमधुयष्टिकसिन्धुजन्म-
विश्वौषधैः पयसि सिद्धमिदं छगल्याः ॥
तैलं नृणां तिमिरशुक्रशिरोक्षिशूल-
पाकात्ययाञ्जयति नस्यविधौ प्रयुक्तम् ॥ १०५ ॥
सैन्धवं वाजिपादं च गोरोचनसमन्वितम् ॥
सेलुत्वग्रससंयुक्तं पूरणं चाजकापहम् ॥ १०६ ॥
शशकस्य शिरःकल्के शेषाङ्गक्वथिते जले ॥
घृतस्य कुडवं पक्वं पूरणं चाजकापहम् ॥ १०७ ॥
शशकस्य कषायेण सर्पिषः कुडवं पचेत् ॥
यष्टीप्रपौण्डरीकस्य कल्केन पयसा समम् ॥ १०८ ॥
छागल्याः पूरणाच्छुक्रक्षतपाकात्ययाजकाः ॥
हन्ति भ्रूशङ्खशूलं च दाहरागौ विशेषतः ॥ १०९ ॥
466
न विना शोणितं शुक्रक्षतपाकात्ययाजकाः ॥
भवन्ति रुधिरं तेषु जलौकोभिरतो हरेत् ॥ ११० ॥
मूलं दृष्टिविनाशस्य तिमिरं समुदाहृतम् ॥
ऋषिभिस्त्वरितं तस्मात्तस्य कुर्याच्चिकित्सितम् ॥ १११ ॥
एकदेशे तु यो दोषो दृष्ट्यां तिष्ठति पिण्डितः ॥
यत्संस्थानः स भवति तादृशं तेन पश्यति ॥
तृतीये पटले काचश्चतुर्थे नीलिकाह्वयम् ॥ ११२ ॥
साध्यमप्राप्तरागं स्यात्तिमिरं च क्रियावतः ॥
याप्यं संप्राप्तरागं स्याद्वर्ज्यं पटलतां गतम् ॥ ११३ ॥
त्रिफलाघृतं मधु यवाः पादाभ्यङ्गः शतावरीमुद्गाः ॥
चक्षुष्यः संक्षेपाद्वर्गः कथितो भिषग्भिरयम् ॥ ११४ ॥
जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च ॥
चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च ॥ ११५ ॥
467
पटोलकर्कोटककारवेल्लवार्ताकतर्कारिकरीरजानि ॥
शाकानि शिग्र्वार्तगलानि चैव हितानि दृष्टेर्घृतसाधितानि ॥ ११६ ॥
तिमिरं रागतां याति रागात्काचत्वमेति च ॥
काचात्संजायते नीली तदाऽन्धो जायते नरः ॥ ११७ ॥
लिद्यात्सदा वा त्रिफलां सुचूर्णितां
घृतप्रगाढां तिमिरेऽथ पित्तजे ॥
समीरजे तैलयुतां कफात्मके
मधुप्रगाढां विदधीत युक्तितः ॥ ११८ ॥
कल्कः क्वाथोऽथ वा चूर्णस्त्रिफलाया निषेवितः ॥
मधुना हविषा वाऽपि समस्ततिमिरान्तकृत् ॥ ११९ ॥
यस्त्रैफलं चूर्णमपथ्यवर्जी सायं समश्नाति हविर्मधुभ्याम् ॥
स मुच्यते नेत्रगतैर्विकारैर्भृत्यैर्यथा क्षीणधनो मनुष्यः ॥ १२० ॥
सघृतं वा वराक्वाथं शीलयेत्तिमिरामयी ॥ १२१ ॥
468
त्रिफलायाः कषायेण प्रातर्नयनधावनात् ॥
जाता रोगा विनश्यन्ति न भवन्ति कदाचन ॥ १२२ ॥
जलगण्डूषैः प्रातर्बहुशोऽम्भोभिः प्रपूर्य मुखरन्ध्रम् ॥
निर्दयमुक्षन्नक्षि क्षपयति तिमिराणि ना सद्यः ॥ १२३ ॥
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ॥
अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ १२४ ॥
रविरिव भूगततिमिरं विनिहन्ति नावनात्सर्पिः ॥
शतवर्षस्थितकठिनं सप्ताहादञ्जनान्नियतम् ॥ १२५ ॥
कतकस्य फलं शङ्खं सैधवं त्र्यूषणं सिता ॥
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ॥ १२६ ॥
सर्वमेतत्समं कृत्वा छागक्षीरेण पेषयेत् ॥
तिमिरं पटलं काचमर्म शुक्रं व्यपोहति ॥
कण्डूक्लेदार्बुदं हन्ति मलं चाऽऽशु सुखावती ॥ १२७ ॥
हरीतकी वचा कुष्ठं पिप्पली मरिचानि च ॥ १२८ ॥
विभीतकस्य मज्जा च शङ्खनाभिर्मनःशिला ॥
सर्वमेतत्समं कृत्वा छागक्षीरेण पेषयेत् ॥ १२९ ॥
नाशयेत्तिमिरं कण्डूपटलान्यर्बुदानि च ॥
अधिकानि च मांसानि यश्च रात्रौ न पश्यति ॥ १३० ॥
अपि त्रिवार्षिकं पुष्पं मासेनैकेन नाशयेत् ॥
चन्द्रोदया नाम वर्तिर्नृणां दृष्टिविशोधनी ॥ १३१ ॥
469
दिवा न तु प्रयोक्तव्यं नेत्रयोस्तीव्रमञ्जनम् ॥
विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदति ॥ १३२ ॥
तस्मात्स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते ॥
रात्रिः स्वप्नगुणाच्चक्षुः पुष्यत्यञ्जनकर्षितम् ॥ १३३ ॥
यथा हि कनकादीनां मणीनां विविधात्मनाम् ॥
धौतानां विविधा शुद्धिस्तैलचेलकरादिभिः ॥ १३४ ॥
एवं नेत्रेषु मर्त्यानामञ्जनाश्चोतनादिभिः ॥
दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत् ॥ १३५ ॥
हरीतकी हरिद्रा च पिप्पल्यो लवणानि च ॥
कण्डूतिमिरजिद्वर्तिर्न क्वचित्प्रतिहन्यते ॥ १३६ ॥
त्रिफला कुक्कुटाण्डत्वक्सकासीसमयोरजः ॥
नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः ॥ १३७ ॥
आजेन पयसा पिष्ट्वा भावयेत्ताम्रभाजने ॥
सप्तरात्रस्थितं भूयः पिष्ट्वा क्षीरेण वर्तयेत् ॥
एषा दृष्टिप्रदा वर्तिरन्धस्याभिन्नचक्षुषः ॥ १३८ ॥
अशीतिस्तिलपुष्पाणि षष्टिः पिप्पलितण्डुलाः ॥ १३९ ॥
जातीपुष्पाणि पञ्चाशन्मरिचानि च षोडश ॥
एषा कुसुमिकावर्तिर्गतं चक्षुर्निवर्तयेत् ॥ १४० ॥
470
चन्दनत्रिफलापूगपलाशतरुशोणितैः ॥
जलपिष्टैरियं वर्तिरशेषतिमिरापहा ॥ १४१ ॥
व्योषोत्पलाभयाकुष्ठतार्क्ष्यैर्वर्तिः कृता हरेत् ॥
अर्बुदं पटलं काचं तिमिरार्माश्रुनिस्रुतिम् ॥ १४२ ॥
त्र्यूषणं त्रिफलावक्रसैन्धवालमनःशिलाः ॥
क्लेदोपदेहकण्डूघ्नी वर्तिः शस्ता कफापहा ॥ १४३ ॥
एकगुणा मागधिका द्विगुणा च हरीतकी सलिलपिष्टा ॥
वर्तिरियं नयनसुखा तिमिरार्मपटलकाचाश्रुहरी ॥ १४४ ॥
अञ्जनं श्वेतमरिचं पिप्पली मधुयष्टिका ॥
विभीतकस्य मज्जा तु शङ्खनाभिर्मनःशिला ॥ १४५ ॥
एतानि समभागानि अजाक्षीरेण पेषयेत् ॥
छायाशुष्कां कृतां वर्तिं नेत्रेषु च प्रयोजयेत् ॥ १४६ ॥
अर्बुदं पटलं काचं तिमिरं रक्तराजिकाम् ॥
अधिमांसं मलं चैव यश्च रात्रौ न पश्यति ॥
वर्तिश्चन्द्रप्रभा नाम जात्यन्धमपि शोधयेत् ॥ १४७ ॥
त्रिफलाव्योषसिन्धूत्थयष्टीतुत्थरसाञ्जनम् ॥
प्रपौण्डरीकं जन्तुघ्नं लोध्रं ताम्रं चतुर्दशम् ॥ १४८ ॥
द्रव्याण्येतानि संचूर्ण्य वर्तिः कार्या नभोम्बुना ॥
नागार्जुनेन लिखिता स्तम्भे पाटलिपुत्रके ॥ १४९ ॥
नाशनी तिमिराणां च पटलानां तथैव च ॥
सद्यः प्रकोपं स्तन्येन स्त्रिया विजयते ध्रुवम् ॥ १५० ॥
किंशुकस्वरसेनाथ पैल्ल्यं पुष्पकरक्तताः ॥
अञ्जनाल्लोध्रतोयेन आसन्नतिमिरं जयेत् ॥ १५१ ॥
471
चिरं संछादिते नेत्रे बस्तमूत्रेण संयुता ॥
उन्मीलयत्यकृच्छ्रेण प्रसादं चाधिगच्छति ॥ १५२ ॥
पिप्पलीं सतगरोत्पलपत्रां वर्तयेत्समधुकां सहरिद्राम् ॥
एतया सततमञ्जयितव्यं यः सुपर्णसममिच्छति चक्षुः ॥ १५३ ॥
व्योषायश्चूर्णसिन्धूत्थत्रिफलाञ्जनसंस्कृता ॥
गुटिका जलपिष्टेयं कोकिला तिमिरापहा ॥ १५४ ॥
हरिद्रामलकीकृष्णकेतकश्वेतसर्षपैः ॥
व्योमवारियुता वर्तिः सर्वनेत्रामयापहा ॥ १५५ ॥
व्याघ्रीमुस्ताम्बुयष्ट्याह्वैः पिप्पलीसैन्धवान्वितैः ॥
अजाक्षीरोषितैस्ताम्रे वर्तिः सर्वाक्षिरोगनुत् ॥ १५६ ॥
हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च ॥ १५७ ॥
विडङ्गं भद्रमुस्तं च सप्तमं विश्वभेषजम् ॥
सर्वाणि समभागानि गवां मूत्रेण पेषयेत् ॥ १५८ ॥
कोलास्थिमात्रां गुटिकां छायाशुष्कां प्रकारयेत् ॥
वारिणा तिमिरं हन्ति मधुना पटलं तथा ॥ १५९ ॥
सिन्ध्वम्भसा च कण्डूं च स्त्रीस्तन्येन तु वेदनाम् ॥
सद्यः कोपं तु क्षीरेण किंशुकेन च पैच्चटम् ॥ १६० ॥
त्रीणि कटूनि करञ्जफलानि द्वे रजनी सह सैन्धवकेन ॥
बिल्वतरोर्वरुणस्य च मूलं वारिधरं दशमं प्रवदन्ति ॥ १६१ ॥
हन्ति तमस्तिमिरं पटलं च पिच्चटशुक्रमथार्जुनकं च ॥
अञ्जनकं जनरञ्जनकं च दृक्च न नश्यति वर्षशतं च ॥ १६२ ॥
472
नीलोत्पलं विडङ्गानि पिप्पली रक्तचन्दनम् ॥
अञ्जनं सैन्धवं चैव सद्यस्तिमिरनाशनम् ॥ १६३ ॥
पत्रगैरिककर्पूरयष्टीनीलोत्पलाञ्जनम् ॥
नागकेसरसंयुक्तमशेषतिमिरापहम् ॥
त्रिधैवाञ्जनसंयोगो गुटिकारसचूर्णतः ॥ १६४ ॥
संगृह्योपरतानलक्तकरसेनाऽऽमृज्य गण्डूपदा-
ल्लांंक्षारञ्जिततूलवर्तिनिहितान्यष्टीमधून्मिश्रितान् ॥
प्रज्वाल्योत्तमसर्पिषाऽनलशिखासंतानजं कज्जलं
दूरासन्नदिवानिशान्धतिमिरप्रध्वंसकृच्चोदितम् ॥ १६५ ॥
भूमौ निघृष्टयाऽङ्गुल्या चाञ्जनं शमनं तयोः ॥
तिमिरकाचार्महरं धूमिकायाश्च नाशनम् ॥ १६६ ॥
त्रिफलाभृङ्गमहौषधमध्वाज्यच्छागपयसि गोमूत्रे ॥
नागं सप्तनिषिक्तं करोति गरुडोपमं चक्षुः ॥ १६७ ॥
त्रिफलसलिलतोये भृङ्गराजद्रवे च
हविषि च विषकल्के क्षीर आजे मधूग्रे ॥
प्रतिदिनमथ तप्तं सप्तधा सीसमेकं
प्रणिहितमथ पश्चात्कारयेत्तच्छलाकाम् ॥ १६८ ॥
सवितुरुदयकाले साञ्जना व्यञ्जना वा
करिकरिकसमेतानर्मपैच्छिल्यरोगान् ॥
असितसितसमुत्थान्संधिवर्त्माभिजाता-
न्हरति नयनरोगान्सेव्यमाना शलाका ॥ १६९ ॥
473
दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम् ॥ १७० ॥
तत्स्रुतं सघृतं भूयो यावत्क्षौद्रं क्षिपेद्धने ॥
शीते चास्मिन्हितमिदं सर्वजे तिमिराञ्जनम् ॥ १७१ ॥
धात्रीरसाञ्जनक्षौद्रसर्पिर्भिस्तु रसक्रिया ॥
पित्तानिलाक्षिरोगघ्नी तैमिर्यपटलापहा ॥ १७२ ॥
शृङ्गवेरं भृङ्गराजं यष्टीतैलेन मिश्रितम् ॥
नस्यमेतेन दातव्यं महापटलनाशनम् ॥ १७३ ॥
लिङ्गनाशे कफोद्भूते यथावद्बुद्धिपूर्वकम् ॥
विद्ध्वा दैवकृते छिद्रे नेत्रं स्तन्येन सेचयेत् ॥ १७४ ॥
474
ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ॥
नयनं सर्पिषाऽभ्यज्य वस्त्रपट्टेन चेष्टयेत् ॥
ततो गृहे निराबाधे शयीतोत्तान एव च ॥ १७५ ॥
उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च ॥
तत्कालं नाऽऽचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् ॥ १७६ ॥
त्र्यहात्त्र्यहाच्च धावेत कषायैरनिलापहैः ॥
वायोर्भयात्त्र्यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत् ॥ १७७ ॥
दशाहमेवं संयम्य हितं दृष्टिप्रसादनम् ॥
पश्चात्कर्म तु सेवेत लघ्वन्नं चापि मात्रया ॥ १७८ ॥
475
रागः शोफोऽर्बुदं चोषो बुद्बुदं केकराक्षिता ॥
अधिमन्थादयश्चान्ये रोगाः स्युर्दुष्टवेधजाः ॥
अहिताचारतो वाऽपि
यथास्वं तानुपाचरेत् ॥ १७९ ॥
रुजायामक्षिरोगे वा भूयो योगान्निबोध मे ॥ १८० ॥
कल्किता सघृता दूर्वा यवगैरिकसारिवाः ॥
मुखलेपे प्रयोक्तव्या रुजारागोपशान्तये ॥ १८१ ॥
पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ॥
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते ॥ १८२ ॥
वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे ॥
काकोल्यादिप्रतीवापं तद्युञ्ज्यात्सर्वकर्मसु ॥ १८३ ॥
शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत् ॥
ततः शिरां दहेच्चापि मतिमान्कीर्तितं यथा ॥ १८४ ॥
दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे ॥ १८५ ॥
476
मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ॥
मालत्याश्चैव तुल्यानि मुक्तावैडूर्यमेव च ॥ १८६ ॥
अजाक्षीरेण संपिष्य ताम्रे सप्ताहमावपेत् ॥
प्रविधाय च तद्वर्तिं योजयेदञ्जने भिषक् ॥ १८७ ॥
स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिला ॥
मरिचानि च तद्वर्तीः कारयेद्वाऽपि पूर्ववत् ॥ १८८ ॥
रसाञ्जनं रसक्षौद्रतालीसस्वर्णगैरिकैः ॥
गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये ॥ १८९ ॥
नलिनोत्पलकिञ्जल्कं गोशकृद्रससंयुतम् ॥
गुटिकाञ्जनमेतत्स्याद्दिनरात्र्यन्धयोर्हितम् ॥ १९० ॥
477
नदीजशम्बित्रिकटून्यथाञ्जनं मनःशिला द्वे च निशेऽगवां यकृत् ॥
सचन्दनेयं गुटिकाऽथ वाऽञ्जनं प्रशस्यते रात्रिदिनेष्वपश्यताम् ॥ १९१ ॥
कणा छागयकृन्मध्ये पक्वा तद्रसपेषिता ॥
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्रमूषणम् ॥ १९२ ॥
पचेत्तु गौधं हि यकृत्प्रकल्पितं सुपूरितं मागधिकाभिरग्निना ॥
निषेवितं तद्यकृदञ्जनेन वा निहन्ति नक्तान्ध्यमसंशयं खलु ॥ १९३ ॥
478
त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् ॥
तिमिराण्यचिराद्धन्यात्पीतमेतन्निशामुखे ॥ १९४ ॥
त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च ॥
वृषस्य च रसप्रस्थं शतावर्याश्च तत्समम् ॥ १९५ ॥
अजाक्षीरं गुडूच्याश्च आमलक्या रसं तथा ॥
प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत् ॥ १९६ ॥
कल्कः कणा सिता द्राक्षा त्रिफला नीलमुत्पलम् ॥
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका ॥ १९७ ॥
तत्साधुसिद्धं विज्ञाय शुभे भाण्डे निधापयेत् ॥
ऊर्ध्वपानमधःपानं मध्येपानं च शस्यते ॥ १९८ ॥
यावन्तो नेत्ररोगास्तान्पानादेवापकर्षति ॥
सरक्ते रक्तदुष्टे च रक्ते चातिस्रुतेऽपि च ॥ १९९ ॥
नक्तान्ध्ये तिमिरे काचे नीलिकापटलार्बुदे ॥
अभिष्यन्देऽधिमन्थे च पक्ष्मकोपे च दारुणे ॥ २०० ॥
नेत्ररोगेषु सर्वेषु वातपित्तकफेषु च ॥
अदृष्टिं मन्ददृष्टिं च कफवातप्रदूषिताम् ॥ २०१ ॥
स्रवतो वातपित्ताभ्यां सकण्ड्वासन्नदूरदृक् ॥
गृध्रदृष्टिकरं सद्यो बलवर्णाग्निवर्धनम् ॥
सर्वनेत्रामयान्हन्यात्त्रिफलाद्यं महाघृतम् ॥ २०२ ॥
त्रिफला त्र्यूषणं द्राक्षा मधुकं कटुरोहिणी ॥ २०३ ॥
प्रपौण्डरीकं सूक्ष्मैला विडङ्गं नागकेसरम् ॥
नीलोत्पलं सारिवे द्वे चन्दनं रजनीद्वयम् ॥ २०४ ॥
कार्षिकैः पयसा तुल्यं त्रिगुणं त्रिफलारसम् ॥
घृतप्रस्थं पचेदेतत्सर्वनेत्ररुजापहम् ॥ २०५ ॥
तिमिरं दोषमास्रावं कामलां काचमर्बुदम् ॥
वीसर्पं प्रदरं कण्डूं रक्तं श्वयथुमेव च ॥ २०६ ॥
479
खालित्यं पलितं चैव केशानां पतनं तथा ॥
विषमज्वरमर्माणि शुक्रं चाऽऽशु व्यपोहति ॥ २०७ ॥
अन्ये च बहवो रोगा नेत्रजा ये च मर्मजाः ॥
तान्सर्वान्नाशयत्याशु भास्करस्तिमिरं यथा ॥ २०८ ॥
न चैवास्मात्परं किंचिदृषिभिः काश्यपादिभिः ॥
दृष्टिप्रसादनं दृष्टं यथा स्यात्त्रैफलं घृतम् ॥ २०९ ॥
फलत्रिकाभीरुकषायसिद्धं कल्केन यष्टीमधुकांशयुक्तम् ॥
सर्पिः समं क्षौद्रचतुर्थभागं हन्यात्त्रिदोषं तिमिरं भवन्तम् ॥ २१० ॥
भृङ्गराजरसप्रस्थे यष्टीमधुपलेन च ॥
तैलस्य कुडवं पक्वं सद्यो दृष्टिं प्रसादयेत् ॥
नस्याद्वलीपलितघ्नं मासेनैतन्न संशयः ॥ २११ ॥
गवां शकृत्क्वाथविपक्वमुत्तमं हितं च तैलं तिमिरेषु नस्यतः ॥
घृतं हितं केवलमेव पैत्तिके तथाऽणुतैलं पवनासृगुत्थयोः ॥ २१२ ॥
जीवकर्षभकमेदा द्राक्षांऽशुमती निदिग्धिका बृहती ॥
मधुकं बला विडङ्गं मञ्जिष्ठा शर्करा रास्ना ॥ २१३ ॥
नीलोत्पलं श्वदंष्ट्रा प्रपौण्डरीकं पुनर्नवा लवणम् ॥
पिप्पल्यः सर्वेषां भागैरक्षांशकैः पिष्टैः ॥ २१४ ॥
तैलं वा यदि वा सर्पिर्दत्त्वा क्षीरं चतुर्गुणं पक्वम् ॥
आत्रेयनिर्मितमिदं तैलं नृपवल्लभं सिद्धम् ॥ २१५ ॥
तिमिरं पटलं काचं नक्तान्ध्यं चार्बुदं तथाऽन्यांश्च ॥
श्वेतं च लिङ्गनाशं नाशयति नीलिकाव्यङ्गम् ॥ २१६ ॥
480
मुखनासादौर्गन्ध्यं पलितं चाकालजं हनुस्तम्भम् ॥
श्वासं कासं शोषं हिक्कां स्तम्भं तथाऽत्ययं नेत्रे ॥ २१७ ॥
मुखजाड्यमर्धभेदं रोगं बाहुग्रहं शिरस्तम्भम् ॥
रोगानथोर्ध्वजत्रोः सर्वानचिरेण नाशयति ॥ २१८ ॥
पिप्पली त्रिफला लाक्षा लोहचूर्णं ससैन्धवम् ॥
भृङ्गराजरसे घृष्टं गुटिकाञ्जनमिष्यते ॥ २१९ ॥
अर्मं सतिमिरं काचं कण्डूं शुक्रं तथाऽर्जुनम् ॥
अजकानेत्ररोगांश्च हन्यान्निरवशेषतः ॥ २२० ॥
चन्दनं सैन्धवं पथ्या पलाशतरुशोणितम् ॥
क्रमवृद्धमिदं चूर्णं शुक्रार्मादिविलेखनम् ॥ २२१ ॥
पुष्पाख्यतार्क्ष्यजसितोदधिफेनशङ्ख-
सिन्धूत्थगैरिकशिलामरिचैः समांशैः ॥
पिष्टैस्तु माक्षिकरसेन रसक्रियेयं
हन्त्यर्मकाचतिमिरार्जुनवर्त्मरोगान् ॥ २२२ ॥
481
पिष्टं क्षौद्रेण चाऽऽलोड्य स्थापितं वेणुगह्वरे ॥
रसेन मधुना यस्मात्क्रियते तु रसक्रिया ॥ २२३ ॥
कोष्णस्य सर्पिषः पानैर्विरेकालेपसेचनैः ॥
स्वादुशीतैः प्रशमयेच्छुक्तिकामञ्जनैस्ततः ॥ २२४ ॥
प्रवालमुक्तावैडूर्यशङ्खस्फटिकचन्दनम् ॥
सुवर्णं रजतं क्षौद्रमञ्जनं शुक्तिकापहम् ॥ २२५ ॥
अर्जुने शर्करामस्तुक्षौद्रैश्चाऽऽश्चयोतनं हितम् ॥ २२६ ॥
शङ्खः क्षौद्रेण संयुक्तः कतकः सैन्धवेन वा ॥
सितयाऽर्णवफेनो वा पृथगञ्जनमर्जुने ॥ २२७ ॥
सितामधुककट्वङ्गमस्तुक्षौद्राम्लसैन्धवैः ॥
पूरणं हन्ति लौहित्यं रक्तराजीमथार्जुनम् ॥
पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये ॥ २२८ ॥
वैदेहीसितमरिचं नागरं सैन्धवं समम् ॥
मातुलुङ्गरसैः पिष्टमञ्जनं पिष्टकापहम् ॥ २२९ ॥
भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः ॥
482
विलिखेन्मण्डलाग्रेण प्रस्थयित्वा समन्ततः ॥ २३० ॥
पथ्याक्षधात्रीफलमध्यबीजैस्त्रिद्व्येकभागैर्विदधीत वर्तिम् ॥
तयाऽञ्जयेदश्रुमतिप्रवृद्धमक्ष्णोर्हरेत्कष्टमपि प्रकोपम् ॥ २३१ ॥
स्रावेषु त्रिफलाक्वाथं यथादोषं प्रयोजयेत् ॥
क्षौद्रेणाऽऽज्येन पिप्पल्या मिश्रं विध्येच्छिरां तथा ॥ २३२ ॥
त्रिफलामूत्रकासीससैन्धवैः सरसाञ्जनैः ॥
रसक्रिया क्रिमिग्रन्थौ भिन्ने स्यात्प्रतिसारणम् ॥ २३३ ॥
स्विन्नां भित्त्वा विनिष्पीड्य भिन्नामञ्जननामिकाम् ॥
शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत् ॥ २३४ ॥
रसाञ्जनमधुभ्यां तु भिन्नां(त्त्वा) वा शस्त्रकर्मवित् ॥
प्रतिसार्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः ॥ २३५ ॥
483
स्वेदयेद्घृष्टयाऽङ्गुल्या हरेद्रक्तं जलौकसा ॥
रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च ॥ २३६ ॥
प्रतिसारणमेकैकं भिन्ने लगण इष्यते ॥
निमिषे नासया पेयं सर्पिस्तेन च पूरणम् ॥ २३७ ॥
स्वेदयित्वा बिसग्रन्थिं छिद्राण्यस्य निराश्रयम् ॥
पक्वं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ॥ २३८ ॥
वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम् ॥
पुनः पुनर्विरेकं च पिल्लरोगातुरो भजेत् ॥ २३९ ॥
484
पिल्ली स्निग्धो वमेत्पूर्वं शिराव्यधस्रुतेऽसृजि ॥
शिलारसाञ्जनव्योषगोपित्तैश्चक्षुरञ्जयेत् ॥ २४० ॥
हरितालवचादारु सुरसारसपेषितम् ॥
अभयारसपिष्टं वा तगरं पिल्लनाशनम् ॥ २४१ ॥
भावितं बस्तमूत्रेण सस्नेहं देवदारु च ॥ २४२ ॥
काकमाचीफलैकेन घृतयुक्तेन बुद्धिमान् ॥
धूपयेत्पिल्लरोगार्तं पतन्ति कृमयोऽचिरात् ॥ २४३ ॥
रसाञ्जनं सर्जरसो जातीपुष्पं मनःशिला ॥
समुद्रफेनो लवणं गैरिकं मरिचानि च ॥ २४४ ॥
एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि ॥
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणां च प्ररोहणम् ॥ २४५ ॥
ताम्रपात्रे गुहामूलं सिन्धूत्थमरिचान्वितम् ॥
आरनालेन संघृष्टमञ्जनं पिल्लनाशनम् ॥ २४६ ॥
हरिद्रे त्रिफला लोध्रं मधुकं रक्तचन्दनम् ॥
भृङ्गराजरसे पिष्ट्वा घर्षयेल्लोहभाजने ॥ २४७ ॥
तथा ताम्रे च सप्ताहं कृत्वा वर्तिं रजोऽथ वा ॥
पिच्चटी धूमदर्शी च तिमिरोपहतेक्षणः ॥
प्रातर्निश्यञ्जयेन्नित्यं सर्वनेत्रामयापहम् ॥ २४८ ॥
485
मञ्जिष्ठामधुकोत्पलोदधिकफत्वक्सेव्यगोरोचना-
मांसीचन्दनशङ्खपत्रगिरिमृत्तालीसपुष्पाञ्जनैः ॥
सर्वैरेव समांशमञ्जनमिदं शस्तं सदा चक्षुषः
कण्डूक्लेदमलाश्रुशोणितरुजापिल्लार्मशुक्रापहम् ॥ २४९ ॥
तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः ॥
त्रिंशता काञ्जिकपलैः पिष्ट्वा ताम्रे निधापयेत् ॥ २५० ॥
पिल्लानपिल्लान्कुरुते बहुवर्षोत्थितानपि ॥
तत्सेकेनोपदेहाश्रुकण्डूशोथांश्च नाशयेत् ॥ २५१ ॥
करञ्जबीजं सुरसं सुमनःकोरकाणि च ॥ २५२ ॥
संक्षुद्य साधयेत्क्वाथं पूते तत्र रसक्रिया ॥
अञ्जनं पिल्लभैषज्यं पक्ष्मणां च प्ररोहणम् ॥ २५३ ॥
पुष्पकासीसचूर्णं वा सुरसारसभावितम् ॥
ताम्रे दशाहं तत्पिल्लपक्ष्मरोगजिदञ्जनात् ॥ २५४ ॥
याप्यः पक्ष्मोपरोधस्तु रोमोद्धरणलक्षणैः ॥
वर्त्मन्युपचितं लेख्यं स्राव्यमुत्क्लिष्टशोणितम् ॥ २५५ ॥
प्रवृद्धान्तर्मुखं रोम सहिष्णोरुद्धरेच्छनैः ॥
संदंशेनोद्धरेद्दृष्ट्यालक्ष्यरोमाणि बुद्धिमान् ॥
सूच्यग्रेणाग्निवर्णेन रोमकूपं विनिर्दहेत् ॥ २५६ ॥
प्रदेहाः शीतला नस्यं क्रिया पक्ष्मापरोधहृत् ॥ २५७ ॥
रक्षन्नक्षि दहेत्पक्ष्म तप्तहेमशलाकया ॥
पक्ष्मकोपे पुनर्नैवं कदाचिद्रोमसंभवः ॥ २५८ ॥
486
त्रिफलाव्योषसिन्धूत्थैर्घृतं सिद्धं पिबेन्नरः ॥
चक्षुष्यं भेदनं हृद्यं दीपनं कफनाशनम् ॥ २५९ ॥