Adhikāra 75

558
बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते ॥
संसर्गे संनिपाते च बस्तिरेव सदा हितः ॥ १ ॥
विरेचनात्सप्तरात्रे गते जातबलाय वै ॥
कृताहाराय सायाह्ने बस्तिर्देयोऽनुवासनः ॥ २ ॥
559
क्षारं न चेद्वैतरणं प्रदाय द्व्यहे त्र्यहे वाऽप्यनुवासनीयः ॥ ३ ॥
प्रसुप्तं वामपार्श्वेन कृतान्नमनुवासयेत् ॥ ४ ॥
उत्सृष्टानिलविण्मूत्रे नरे बस्तिं निधापयेत् ॥
अन्यथा विहितो बस्तिर्नैवान्तः प्रतिपद्यते ॥ ५ ॥
बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत् ॥
एकेनैवावपीडेन न द्रुतं न विलम्बितम् ॥ ६ ॥
प्रसारितैकजङ्घायां कार्याऽन्योपरि कुञ्चिता ॥
प्रदद्यात्पुटकं तस्मिन्पायौ दोषविशोधनम् ॥ ७ ॥
ततः प्रणिहिते स्नेह उत्तानो वाक्शतं भवेत् ॥
प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति ॥ ८ ॥
आकुञ्चयेच्छनैस्त्रिस्त्रिः सक्थिबाहू ततः परम् ॥
ताडयेत्तलयोरेनं त्रींस्त्रीन्वाराञ्शनैः शनैः ॥
स्फिजोश्चैवं ततः श्रोणी शय्यां त्रिरुत्क्षिपेत्ततः ॥ ९ ॥
560
एवं प्रणिहिते बस्तौ मन्दायासोऽप्यमन्दवाक् ॥
स्वास्तीर्णे शयने काममासीताऽऽचारिके रतः ॥ १० ॥
षट्पली तु भवेज्ज्येष्ठा मध्यमा त्रिपली भवेत् ॥
कनीयस्यर्धपलिका त्रिधा मात्राऽनुवासने ॥ ११ ॥
प्राग्दानमाद्ये द्विपलं पलार्धवृद्धिर्द्वितीये पलमक्षवृद्धिः ॥
कर्षद्वयं स्याद्वसुमाषवृद्धिर्बस्तौ तृतीये क्रम एष उक्तः ॥ १२ ॥
561
स तु सैन्धवचूर्णेन शताह्वेन च संयुतः ॥
भवेत्सुखोष्णश्च तथा निरेति सहसा सुखम् ॥ १३ ॥
चूर्णमाषः पले स्नेहे सिन्धुजन्मशताह्वयोः ॥
माषमेकं पले स्नेहे सिन्धुजन्मशताह्वयोः ॥ १४ ॥
यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत् ॥
अत्युष्णो वाऽतितीक्ष्णो वा वायुना वा प्रपीडितः ॥ १५ ॥
सवातोऽधिकमात्रो वा गुरुत्वाद्वाऽतिभेषजः ॥
तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति ॥ १६ ॥
त्रीन्यस्य यामाननुवर्तते च स्नेहो नरः स्यात्स विशुद्धदेहः ॥ १७ ॥
562
एकान्तरोपयोगेन धान्यशुण्ठीजलं पिबेत् ॥
तेनास्य दीप्यते वह्निर्भक्तकाङ्क्षा च जायते ॥ १८ ॥
क्वाथार्धमात्रया प्रातर्धान्यशुण्ठीजलं पिबेत् ॥
पित्तोत्तरे कदुष्णाम्भस्तावन्मात्रं पिबेदथ ॥ १९ ॥
स्नेहाजीर्णं शमयति श्लेष्माणं च भिनत्ति तत् ॥
मारुतस्यानुकूलत्वं कुर्यादुष्णोदकं नृणाम् ॥ २० ॥
स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः ॥
स्नेहवीर्यं तथा दत्ते देहं नानु विसर्पति ॥ २१ ॥
अशुद्धमपि वातेन केवलेनापि पीडितम् ॥
अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ॥ २२ ॥
तीव्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत् ॥ २३ ॥
563
रूक्षस्य बहुवातस्य द्वौ त्रीन्वाऽप्यनुवासनान् ॥
दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् ॥ २४ ॥
अस्निग्धमपि वातेन केवलेनातिपीडितम् ॥
स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत् ॥ २५ ॥
स्नेहबस्तिं निरूहं वा नैकमेवाभ्यसेच्चिरम् ॥
स्नेहात्पित्तकफोत्क्लेशौ निरूहात्पवनाद्भयम् ॥ २६ ॥
564
यथोचितात्पादहीनं भोजयित्वाऽनुवासयेत् ॥ २७ ॥
न चाभुक्तवतः स्नेहः प्रणिधेयः कथंचन ॥
शुद्धत्वाच्छून्यकोष्ठस्य क्षिप्रस्तूर्ध्वमथोत्पतेत् ॥ २८ ॥
एकं तथा त्रीन्कफजे विकारे पित्तात्मके पञ्च तु सप्त वाऽपि ॥
वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान्कुशलो विदध्यात् ॥ २९ ॥
विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने ॥
दाहक्लमप्रवाहार्तिकरश्चात्यनुवासने ॥ ३० ॥
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य वै ॥
ऊषाचोषौ विना शीघ्रं स सम्यगनुवासितः ॥ ३१ ॥
565
जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः ॥
लघ्वन्नं भोजयेत्कामं दीप्ताग्निः स नरो यदि ॥ ३२ ॥
अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति ॥
कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ॥ ३३ ॥
यस्य नोपद्रवं कुर्यात्स्नेहवस्तिरनिःसृतः ॥
सर्वोऽल्पो वाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता ॥ ३४ ॥
566
अनायान्तमहोरात्रात्स्नेहं सोपद्रवं हरेत् ॥
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ॥ ३५ ॥
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ॥
तदाऽङ्गसदनाध्मानशूलाः श्वासश्च जायते ॥ ३६ ॥
पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम् ॥
तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं वाऽप्यनुवासनम् ॥ ३७ ॥
शुद्धस्य दूरानुगते स्नेहे स्नेहस्य दर्शनम् ॥
मुखे तु सर्वेन्द्रियाणामुपलेपोऽवसादनम् ॥
स्नेहगन्धमुखं वाऽपि कासश्वासावरोचकः ॥ ३८ ॥
गले निष्पीड्य तत्राऽऽशु कम्पयेत्तं प्रयत्नतः ॥
कार्यं तस्य सुतीक्ष्णं च तीक्ष्णं चापि विरेचनम् ॥ ३९ ॥
567
नात्युच्छ्रितं नाप्यतिनीचपादं सपादपीठं शयनं प्रशस्तम् ॥
प्रधानमूर्धास्तरणोपपन्नं प्राक्शीर्षकं शुक्लपटोत्तरीयम् ॥ १ ॥
अनुवासितमभ्यक्तं स्विन्नदेहं निरूहयेत् ॥
अभुक्तं पीडयेद्बस्तिमतूर्णमविलम्बितम् ॥ २ ॥
जानुमण्डलमावेष्ट्य दत्तं दक्षिणपाणिना ॥
कृष्टनेत्रच्छटाशब्दशतं तिष्ठेदवेगवान् ॥ ३ ॥
द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ॥
सम्यङ्निरूढलिङ्गे तु प्राप्ते बस्तिं निवारयेत् ॥ ४ ॥
568
मधुस्नेहनकल्काख्यकषायावापतः क्रमात् ॥
त्रीणि षड् द्वे दश त्रीणि पलान्यनिलरोगिणाम् ॥ ५ ॥
पित्ते चत्वारि चत्वारि द्वे द्विपञ्चचतुष्टयम् ॥
षट्त्रीणि द्वे दश त्रीणि कफे वाऽपि निरूहणम् ॥ ६ ॥
569
सस्नेह एकः पवने समांसो द्वौ स्वादुशीतौ पयसा तु पित्ते ॥
त्रयः समूत्राः कटुकोष्णरूक्षाः कफे निरूहा न परं विधेयाः ॥ ७ ॥
एकोऽपकर्षत्यनिलं स्वमार्गात्पित्तं द्वितीयस्तु कफं तृतीयः ॥ ८ ॥
अल्पाल्पवेगो विड्वातहीनो हीननिरूहणः ॥
मूर्छाशूलकफप्रायो महावेगोऽतिशब्दितः ॥ ९ ॥
यस्य मूत्रं पुरीषं च कफो वायुश्च गच्छति ॥
क्रमेण लघुता चैव सुनिरूढः स मानवः ॥ १० ॥
सुनिरूढं ततो जन्तुं स्नातं भुक्तरसौदनम् ॥
यथोक्तेन विधानेन योजयेत्स्नेहबस्तिना ॥ ११ ॥
570
तदहस्तस्य पवनाद्भयं बलवदिष्यते ॥
रसौदनस्तेन शस्तस्तदहश्चानुवासनम् ॥ १२ ॥
सम्यङ्निरूढं तैलाक्तं जलेनोष्णेन सेचितम् ॥
अल्पस्नेहं जाङ्गलस्य रसेनोर्ध्वं तु भोजितम् ॥
योजयेदल्पमात्रेण तत्क्षणं स्नेहबस्तिना ॥ १३ ॥
प्रथमा मध्यमा ह्वस्वा मात्रा या यैस्तु सेविता ॥
मन्दाग्नित्वान्निरूढानां तदर्धेनानुवासनम् ॥ १४ ॥
पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् ॥
अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते ॥ १५ ॥
571
विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः ॥
आस्थापिते स्नेहबस्तौ सम्यग्दत्ते तु लक्षणम् ॥ १६ ॥
अनायान्तं मुहूर्तान्ते निरूहं शोधनैर्हरेत् ॥
निरूहैरेव मतिमान्क्षारमूत्राम्लसंयुतैः ॥ १७ ॥
विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् ॥
शूलारतिज्वराटोपान्मरणं वा प्रयच्छति ॥ १८ ॥
न तु भुक्तवते देयमास्थापनमिति स्थितिः ॥ १९ ॥
आमं तदुद्धरेद्भुक्तं छर्दिं वा जनयेद्भृशम् ॥
कोपयेत्सर्वदोषान्वा तस्माद्देयमनाशिते ॥ २० ॥
572
आवस्थिकं क्रमं चापि मत्वा कार्यं निरूहणम् ॥
मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते ॥ २१ ॥
अतिप्रपीडितो बस्तिः प्रक्रम्याऽऽमाशयं ततः ॥
वातेरितो नासिकाभ्यां मुखतो वा प्रवर्तते ॥
छर्दित्दृल्लासमूर्छादीन्प्रकुर्याद्दाहमेव च ॥ २२ ॥
तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम् ॥
शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान् ॥ २३ ॥
दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम् ॥
विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतद्वयम् ॥ २४ ॥
एकीभूते ततः स्नेहे कल्कस्य प्रसृतं क्षिपेत् ॥
संमूर्छिते कषायं च पञ्चप्रसृतसंमितम् ॥ २५ ॥
वितरेच्च तथाऽऽवापमन्ते द्विप्रसृतोन्मितम् ॥
एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् ॥ २६ ॥
न धावत्यौषधं पाणिं न तिष्ठत्यवलिप्य च ॥
न करोति च सीमन्तं स निरूहः सुयोजितः ॥ २७ ॥
573
बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः ॥
क्षीरसिद्धाः सुशीताः स्युः सास्राः पिच्छिलसंज्ञिताः ॥ १ ॥
वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम् ॥
सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ॥ २ ॥
574
दशमूलीकषायेण शताह्वाक्षं प्रपेषयेत् ॥
तत्समं सैन्धवं दद्यान्मधुतैलं चतुष्पलम् ॥
मदनस्य फलं चैकं यथायोगेन दापयेत् ॥ १ ॥
575
आस्थापनप्रयोगेण भुक्त्वा बस्तिं विचक्षणः ॥
न चाभ्यङ्गो न च स्वेदः परिहारविधिर्न च ॥ २ ॥
आत्रेयानुमतो ह्येष सर्वरोगनिबर्हणः ॥
यक्ष्मघ्नश्च कृमिघ्नश्च शूलघ्नश्च विशेषतः ॥ ३ ॥
शुक्रसंजननो ह्येष वातशोणितनाशनः ॥
बलवर्णकरो वृष्यश्चार्धमात्रिकसंज्ञितः ॥ ४ ॥
शतशः सन्ति निरूहा यद्यपि सुश्रुतचरकप्रणिगदिताः ॥
भिषजां पुनरमुनैव व्यवहारश्चार्धमात्रिकेण ॥ ५ ॥
स्नेहं गुडं मांसरसं पयश्च अम्लानि मूत्रं मधु सैन्धवं च ॥
एतान्यनुक्तान्यपि दापयेत निरूहयोगे मदनात्फलं च ॥ ६ ॥
लवणं कार्षिकं दद्यात्फलमेकं तु मादनम् ॥
वाते गुडं सितां पित्ते कफे सिद्धार्थकादयः ॥ ७ ॥
576
सैन्धवाक्षं समादाय शताह्वाक्षसमन्वितम् ॥
गोमूत्रस्य पलान्यष्टावम्लिकायाः पलद्वयम् ॥ १ ॥
गुडस्य तु पले द्वे तु सर्वमालोड्य यत्नतः ॥
वस्त्रपूतं सुखोष्णं च बस्तिं दद्याद्विचक्षणः ॥ २ ॥
शूलं विट्सङ्गमानाहं मूत्रकृच्छ्रं च दारुणम् ॥
कृम्युदावर्तगुल्मादीन्सद्यो हन्यान्निषेवितः ॥ ३ ॥
पलशुक्तिकर्षकुडवैरम्लीकागुडसिन्धुजन्मगोमूत्रैः ॥
ईषत्तैलयुतोऽयं बस्तिः शूलानाहामवातहरः ॥ १ ॥
भोजयित्वा तु सायाह्ने सर्वस्यायं प्रशस्यते ॥
अथ चेद्बलवाञ्जन्तुरभुक्त्वाऽपि तदा क्वचित् ॥ २ ॥
577
अपि हीनं क्रमं कुर्यान्न तु कुर्यादतिक्रमम् ॥
विशेषात्सुकुमाराणां हीन एव क्रमो हितः ॥ १ ॥
भयोन्मादतृषाशोषाजीर्णारुचिप्रमेहिणः ॥
मूर्छाकुष्ठोदरस्थौल्यकासश्वासक्षयातुराः ॥ २ ॥
शोफभ्रममदच्छर्दियुता वस्त्यसहाबलाः ॥
नाऽऽस्थाप्या नानुवास्याश्च वातरोगादृते नराः ॥ ३ ॥
उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः ॥
अवश्यास्थापनीयास्ते नानुवास्याः कथंचन ॥ ४ ॥
वीर्येण बस्तिरादत्ते दोषानापादमस्तकात् ॥
पक्वाशयस्थः स्वस्थोऽर्कस्त्वपो यद्वन्महीतलात् ॥ ५ ॥
578
सर्वाङ्गगतमेकाङ्गस्थितं वाऽपि समीरणम् ॥
रुणद्धि केवलो बस्तिर्वायोर्वेगमिवाचलः ॥ ६ ॥
वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया ॥
पवनाविद्धतोयस्य वेला वेगमिवोदधेः ॥ ७ ॥
मूलसेकाद्यथा वृक्षाः स्निग्धशाड्वलपल्लवाः ॥
तथा बस्तिप्रदानात्स्यान्नरः कान्तिबलादिमान् ॥ ८ ॥
579
अष्टादशाष्टादशकान्बस्तीनां यो निषेवते ॥
यथोक्तेन विधानेन परिहारक्रमेण च ॥ ९ ॥
स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः ॥
वीतपाप्मा श्रुतधरः सहस्रायुर्भवेन्नरः ॥ १० ॥
580

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

581
कृतः शिराव्यधो यस्य कृतं यस्य विशोधनम् ॥
स ना परिहरेन्मासं याबद्वा बलवान्भवेत् ॥ ११ ॥
त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः ॥
तृतीये तु परीहारे यथायोगं समाचरेत् ॥ १२ ॥
582
स्नेहपीतस्य बान्तस्य विरिक्तस्य स्रुतासृजः ॥
निरूढस्य च कायाग्निर्मन्दो भवति देहिनः ॥ १३ ॥
583
स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते ॥
काष्ठैरणुभिरल्पैश्च संधुक्षित इवानलः ॥ १४ ॥
584

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

585
युक्तेऽग्नौ जीवति चिरं रोगी स्याद्विकृतिं गते ॥
शान्ते पञ्चत्वमायाति देही तस्माद्वरोऽनलः ॥ १५ ॥