232
प्रतारयेत्प्रतिस्रोतो नदीं शीतजलां शिवाम् ॥
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ॥ ६ ॥
यथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत् ॥
शरीरबलमग्निं च कार्यैषा रक्षता क्रिया ॥ ७ ॥
शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम् ॥
ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलरसेन वा ॥ ८ ॥
भल्लातकामृताशुण्ठी दारुपथ्यापुनर्नवाः ॥
पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिबर्हणाः ॥ ९ ॥
पिप्पलीपिप्पलीमूलं भल्लातकफलानि च ॥
कल्कं मधुयुतं पीत्वा ऊरुस्तम्भाद्विमुच्यते ॥ १० ॥
त्रिफलाचव्यकटुकं ग्रन्थिकं मधुना लिहेत् ॥
ऊरुस्तम्भविनाशाय पुरं मूत्रेण वा पिबेत् ॥ ११ ॥
लिह्याद्वा त्रिफलाचूर्णं क्षौद्रेण कटुकायुतम् ॥
सुखाम्बुना पिबेद्वाऽपि चूर्णं षट्चरणं नरः ॥ १२ ॥
पिप्पलीवर्धमानं वा माक्षिकेण गुडेन वा ॥
ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव च ॥ १३ ॥