234
शठीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम् ॥
सप्तरात्रं पिबेज्जन्तुरामवातविपाचने ॥ ३ ॥
दशमूलामृतैरण्डरास्नानागरदारुभिः ॥
क्वाथो रुबूकतैलेन सामं हन्त्यनिलं गुरुम् ॥ ४ ॥
दशमूलीकषायेण पिबेद्वा नागराम्भसा ॥
कुक्षिबस्तिकटीशूले तैलमेरण्डसम्भवम् ॥ ५ ॥
रास्नां गुडूचीमैरण्डं देवदारु महौषधम् ॥
पिबेत्सर्वाङ्गगे वाते सामे संध्यस्थिमज्जगे ॥ ६ ॥
रास्नामृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम् ॥
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुजानुत्रिकपृष्ठशूली ॥ ७ ॥
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः ॥
सामे वाते कटीशूले पाचनो रुग्विनाशनः ॥
यवक्षारसमायुक्तो मूत्रकृच्छ्रविनाशनः ॥ ८ ॥
महौषधगुडूच्योस्तु क्वाथं पिप्पलिसंयुतम् ॥
पिबेदामे सरुक्शोफे कटीशूले विशेषतः ॥ ९ ॥
आमवाते कणायुक्तं दशमूलीजलं पिबेत् ॥
खादेद्वाऽप्यभयाविश्वं गुडूचीं नागरेण वा ॥ १० ॥
एरण्डतैलयुक्तां हरीतकीं भक्षयेन्नरो विधिवत् ॥
आमानिलार्तियुक्तो गृध्रसिवृद्ध्यर्दितो नित्यम् ॥ ११ ॥