Adhikāra 31

273
वातोपसृष्टे हृदये वामयेत्स्निग्धमातुरम् ॥
द्विपञ्चमूलीक्वाथेन सस्नेहलवणेन च ॥ १ ॥
पिप्पल्येला वचा हिङ्गु यवक्षारोऽथ सैन्धवम् ॥
सौवर्चलमथो शुण्ठी अजमोदावचूर्णितम् ॥ २ ॥
फलधान्याम्लकौलत्थदधिमद्यासवादिभिः ॥
पाययेच्छुद्धदेहं च स्नेहेनान्यतमेन वा ॥ ३ ॥
नागरं वा पिबेदुष्णं कषायं चाग्निवर्धनम् ॥
कासश्वासानिलहरं शूलहृद्रोगनाशनम् ॥ ४ ॥
274
श्रीपर्णीमधुकक्षौद्रसितागुडजलैर्वमेत् ॥
पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् ॥
घृतं कषायांश्चोद्दिष्टान्पित्तज्वरविनाशनान् ॥ ५ ॥
शीताः प्रदेहाः परिषेचनानि तथा विरेको हृदि पित्तदुष्टे ॥
द्राक्षासिताक्षौद्रपरूषकैः स्याच्छुद्धे च पित्तापहमन्नपानम् ॥ ६ ॥
पिष्ट्वा पिबेच्चापि सितां जलेन यष्ट्याह्वयं तिक्तकरोहिणीं च ॥ ७ ॥
अर्जुनस्य त्वचा सिद्धं क्षीरं योज्यं हृदामये ॥
सितया पञ्चमूल्या वा बलया मधुकेन वा ॥ ८ ॥
घृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो ये ॥
हृद्रोगजीर्णज्वरपित्तरक्तं हत्वा भवेयुश्चिरजीविनस्ते ॥ ९ ॥
वचानिम्बकषायाभ्यां वान्तं हृदि कफोत्थिते ॥
वातहृद्रोगहृच्चूर्णं पिप्पल्यादि च पाययेत् ॥ १० ॥
275
त्रिदोषजे लङ्घनमादितः स्यादन्नं च सर्वेषु हितं विधेयम् ॥
हीनातिमध्यत्वमवेक्ष्य चैव कार्यं त्रयाणामपि कर्म शस्तम् ॥ ११ ॥
चूर्णं पुष्करजं लिह्यान्माक्षिकेण समायुतम् ॥
हृच्छूलश्वासकासघ्नं क्षयहिक्कानिवारणम् ॥ १२ ॥
तैलाज्यगुडविपक्वं चूर्णं गोधूमपार्थजं वाऽपि ॥
पिबति पयोऽनु च स भवेज्जितसकलहृदामयः पुरुषः ॥ १३ ॥
गोधूमककुभचूर्णं छागपयोगव्यसर्पिषा पक्वम् ॥
मधुशर्करासमेतं शमयति हृद्रोगमुद्धतं पुंसाम् ॥ १४ ॥
मूलं नागबलायास्तु चूर्णं दुग्धेन पाययेत् ॥
हृद्रोगकासश्वासघ्नं ककुभस्य च वल्कलम् ॥ १५ ॥
रसायनं परं बल्यं वातजिन्मासयोजितम् ॥
संवत्सरप्रयोगेण जीवेद्वर्षशतं ध्रुवम् ॥ १६ ॥
हिङ्गूग्रगन्धाबिडविश्वकृष्णाकुष्ठाभयाचित्रकयावशूकम् ॥
पिबेत्ससौवर्चलपौष्कराढ्यं यवाम्भसा शूलहृदामयघ्नम् ॥ १७ ॥
दशमूलकषायं तु लवणक्षारयोजितम् ॥
श्वासकासं सहृद्रोगं गुल्मशूलं च नाशयेत् ॥ १८ ॥
276
कृमिहृद्रोगिणं स्निग्धं भोजयेत्पिशितौदनम् ॥
दध्ना च पललोपेतं त्र्यहं पश्चाद्विरेचयेत् ॥
सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः ॥ १९ ॥
विडङ्गगाढं धान्याम्लं पाययेद्धितमुत्तमम् ॥ २० ॥
कृमिजे च पिबेन्मूत्रं विडङ्गामयसंयुतम् ॥
हृदि स्थिताः पतन्त्येवमधस्तात्कृमयो नृणाम् ॥ २१ ॥
यवान्नं वितरेच्चास्मै सविडङ्गमतः परम् ॥ २२ ॥
277
मुख्यं शतार्धं च हरीतकीनां सौवर्चलस्यापि पलद्वयं च ॥
पक्वं घृतं वल्लभकेति नाम्ना हृच्छ्वासगुल्मोदरमारुतघ्नम् ॥ २३ ॥
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् ॥
दर्भमूलं पृथक्पर्णी पलाशर्षभकौ स्थिरम् ॥ २४ ॥
पलिकान्साधयेत्तेषां रसे क्षीरचतुर्गुणे ॥
कल्कैः स्वगुप्तर्षभकमेदाजीवन्तिजीवकैः ॥ २५ ॥
शतावर्यर्धि(यृद्धि)मृद्वीकाशर्कराश्राविणीबिसैः ॥
प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत् ॥ २६ ॥
मूत्रकृच्छ्रप्रमेहार्शःकासश्वासक्षयापहः ॥
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः ॥ २७ ॥
घृतं बलानागबलार्जुनाम्बुसिद्धं सयष्टीमधुकल्कपादम् ॥
हृद्रोगशूलक्षयरक्तपित्तकासानिलासृक्शमयत्युदीर्णम् ॥ २८ ॥
पार्थस्य कल्कस्य रसेन सिद्धं शस्तं घृतं सर्वहृदामयेषु ॥ २९ ॥