सनत्कुमार उवाच |

अथ तं सहसायातमपश्यत्साचलात्मजा |
ऋषिभिस्तैर्महाभागैः समन्तात्परिवारितम् |
रश्मिभिस्तेजसां योनिं मध्याह्न इव भास्करम् || १ ||
सा तमर्घ्येण पाद्येन मधुपर्केण चैव ह |
पूजयामास रुद्राणी चतुर्वक्त्रमुपागतम् || २ ||

ब्रह्मोवाच |

लोकस्य जननी भूत्वा धारयित्वा जगत्तथा |
किमिदं तपसा भूयो लोकं दग्धुमिहेच्छसि || ३ ||
मा सृष्ट्वा जगदेतत्त्वं तपस्यन्ती विनाशय |
बुद्ध्वैवं धारयस्वेमं लोकं देवि नमस्तव || ४ ||
त्वत्तो रुद्रेण लोको ऽयमहं चैव पुरानघे |
सृष्टाः स्म वरदे देवि मा नः कृत्वा विनाशय || ५ ||
तपसा तव रुद्राणि जगत्स्थावरजङ्गमम् |
तप्यते ग्रीष्ममध्याह्ने जलात्पद्ममिवोद्धृतम् || ६ ||
किं वा ते हृदये देवि यद्यपि स्यात्सुदुष्करम् |
वरं वृणीहि शर्वाणि दातास्मि हिमवत्सुते || ७ ||

देव्युवाच |

वरदो ऽसि यदीशान मम देव चतुर्मुख |
अयं भक्तो ऽनुरक्तश्च मम नित्यं प्रियः प्रभो || ८ ||
व्याघ्रस्य तावद्यच्छस्व ततो दास्यसि मे वरम् |
अद्य वर्षसहस्रं वै स्थितस्यास्य ममाग्रतः || ९ ||
ध्यायतो ऽनिमिषस्यैव स्तब्धकर्णस्य लोकप |
अस्मै दत्स्व वरं देव नास्मि तावद्वरार्थिनी || १० ||

ब्रह्मोवाच |

एष तिर्यग्दुरात्मा च त्वां भक्षयितुमागतः |
नास्य शुद्धं मनो देवि क्रूरो ऽयं पापचेतनः |
पश्यैनं दुष्टमनसं नास्य श्रेयो मनस्त्वयि || ११ ||

सनत्कुमार उवाच |

अथ सा तद्वचः श्रुत्वा रुद्राणी लोकभावनी |
दिव्येन चक्षुषापश्यदज्ञानात्कृतसाहसम् || १२ ||
अत्यन्तभक्तः पूर्वं मे जातिदोषेण दूषितः |
विदितार्था ततो भूत्वा उवाच हिमवत्सुता || १३ ||
भगवन्को हि लोकेषु तिर्यक्त्वे सति निश्चलः |
स्तब्धकर्णेक्षणो दिव्यमहो ऽप्येकमभोजनः || १४ ||
अवतिष्ठेत किं यो ऽयं सहस्रमवतिष्ठत |
वर्षाणां सुमहातेजा नायं तिर्यक्सुसंस्कृतः || १५ ||
भवत्वयं दुष्टचेता अदुष्टो वा महाबलः |
ममानुग्राह्य इत्येवं वरो ह्यस्मै प्रदीयताम् || १६ ||

सनत्कुमार उवाच |

ततः स भगवान्देवश्चतुर्वक्त्रः पितामहः |
उवाच वचनं देवीमृषीणां शृण्वतां तदा || १७ ||
आर्याणां दस्यवो ऽपीह संसर्गात्सिद्धिमाप्नुयुः |
यथायं क्रूरकर्मापि सिद्धिं यास्यत्यनुत्तमाम् || १८ ||
तस्मादार्याः सदा सेव्या नित्यं पापकृतापि हि |
सिद्धिमेति नरः क्षिप्रमपापानां समीपगः || १९ ||
अनुग्राह्यस्तवानिन्द्ये पापो ऽयं दुष्टचेतनः |
अतो ऽस्मै ब्रूहि देवेशे वरो यस्तव रोचते || २० ||

देव्युवाच |

अमरो जरया त्यक्त अक्षयश्चाव्ययस्तथा |
महायोगबलोपेतो महदैश्वर्यसंयुतः |
गणेश्वरो ममेष्टश्च भवत्वेष यदिच्छसि || २१ ||

ब्रह्मोवाच |

एवं भवतु भद्रं ते सर्वमेतद्भविष्यति |
पञ्चालस्य च यक्षो ऽयं प्रतीहारो ऽभवत्पुरा || २२ ||
त्वया मया च यद्यस्य कृतेयं नन्दिरीदृशी |
तस्माद्गमिष्यति ख्यातिं सोमनन्दीति नामतः || २३ ||
यश्चैनं कीर्तयेद्दुर्गे कान्तारेषु भयेषु च |
शार्दूलसिंहद्वीपिभ्यो न भयं तस्य जायते || २४ ||
वद त्वमपि चेशानि यस्ते प्रियमनोरथः |
यावद्ददानि सर्वं ते नियोगात्परमेश्वरात् || २५ ||

देव्युवाच |

इच्छामि भगवन्दिव्यं वर्णं कनकसप्रभम् |
गौरीति लोके ख्याता च भवेयं कमलोद्भव || २६ ||

ब्रह्मोवाच |

एवमस्तु जगन्मातर्यदिच्छसि महामते |
अन्यं वरय भद्रं ते वरं यत्प्रददानि ते || २७ ||
महद्धीदं तपस्तप्तं भवत्या लोकभावनम् |
नानुरूपो वरस्तस्य तस्मादन्यो ऽपि मृग्यताम् || २८ ||

देव्युवाच |

इच्छामि भगवन्पुत्रं सर्वधर्मभृतां वरम् |
महाबलं महोत्साहं सर्वलोकनमस्कृतम् || २९ ||

ब्रह्मोवाच |

पुत्रस्ते भविता देवि महायोगबलान्वितः |
अजेयः सर्वभूतानामष्टैश्वर्यगुणान्वितः || ३० ||
जेता हन्ता तथादेष्टा अजरो ऽवध्य एव च |
अनावेश्यश्च सततं सर्वेषां प्राणिनां वरः || ३१ ||
सदाबालो ऽथ सुभगो धर्मज्ञो धर्मवत्सलः |
देवब्राह्मणगोप्ता च विद्वान्सर्वज्ञ एव च || ३२ ||
ब्रह्मण्यश्च शरण्यश्च देवद्विट्संघहा तथा |
अयोनिजो महातेजा लोकानां सुखकृच्च हि |
शनैरेतदुवाचासौ ततश्च विरराम ह || ३३ ||

सनत्कुमार उवाच |

वरान्स दत्त्वा देवेशः कृत्वा चाभिप्रदक्षिणम् |
विमानं तं समारुह्य स्वं लोकमगमत्तदा || ३४ ||
रुद्राण्यपि गते तस्मिन्सोमनन्दिपुरःसरा |
स्थिताकाशं समास्थाय रोहिणीव बुधानुगा || ३५ ||
मन्त्रानुगेव गायत्री जयन्तेन शची यथा |
तथा सा भाति रुद्राणी सोमनन्दिपुरःसरा || ३६ ||
य इमं पठते सदा विपश्चित्पुरुषः प्रातरतन्द्रितो हि कश्चित् |
कुरुते नभयं हि सोमनन्दी वरदस्तस्य हरश्च सोमनन्दी || ३७ ||
इति स्कन्दपुराणे पञ्चपञ्चाशो ऽध्यायः ||