सनत्कुमार उवाच |

विस्तृते हिमवत्पृष्ठे विमानशतसंकुले |
अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः || १ ||
अथ पर्वतराजो ऽसौ हिमवान्ध्यानकोविदः |
दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् || २ ||
जानन्नपि महाशैलः समाचारक्रियेप्सया |
स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् || ३ ||
देवदानवसिद्धानां सर्वलोकनिवासिनाम् |
वृणुयात्परमेशानं समक्षं येन मे सुता || ४ ||
तदेव सुकृतं श्लाघ्यं ममाभ्युदयसंमतम् |
इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् || ५ ||
आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः |
कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् || ६ ||
अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः |
देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः || ७ ||
प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः |
विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम || ८ ||
अक्ष्णां सहस्रं सुरराट् स बिभ्रद्दिव्याङ्गहारस्रगुदात्तरूपः |
ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् |
आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात्पुरतः सुराणाम् || ९ ||
तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान् |
हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन || १० ||
मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने |
समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी || ११ ||
पीनाङ्गयष्टिः सुकृताङ्गहारस्तेजोबलाज्ञासदृशप्रभावः |
दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन || १२ ||
महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः |
समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि || १३ ||
संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य |
वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी || १४ ||
नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् |
आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितो ऽभ्यगाच्च || १५ ||
आप्याययन्सर्वसुरासुरेशान्कान्त्या च वेषेण च चारुरूपः |
ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात् || १६ ||
श्यामाङ्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली |
तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरो ऽसौ त्वरितं समेतः || १७ ||
तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य |
मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ || १८ ||
शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः |
सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च || १९ ||
दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम् |
वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम् || २० ||
गन्धर्वराजः स च चारुरूपी दिव्यङ्गमो दिव्यविमानचारी |
गन्धर्वसंघैः सहितो ऽप्सरोभिः शक्राज्ञया तत्र समाजगाम || २१ ||
अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः |
आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च || २२ ||
शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः |
आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार || २३ ||
हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम् |
पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था |
दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी || २४ ||
एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश |
वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते || २५ ||
ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः |
स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः || २६ ||
विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताङ्गी |
सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे || २७ ||

सनत्कुमार उवाच |

मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि |
शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः || २८ ||
देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः |
उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः || २९ ||
अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् |
ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता || ३० ||
अथ सा शुद्धसंकल्पा काङ्क्षितप्राप्तसत्फला |
निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु || ३१ ||
ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् |
को ऽयमत्रेति संमन्त्र्य चुक्रुधुर्भृशमार्दिताः || ३२ ||
वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा |
स बाहुरुत्थितस्तस्य तथैव समतिष्ठत || ३३ ||
स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना |
वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च || ३४ ||
भगो नाम ततो देव आदित्यः काश्यपो बली |
उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः |
तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा || ३५ ||
शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत |
तस्यापि शिरसो देवः खालित्यं प्रचकार ह || ३६ ||
पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः |
तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना || ३७ ||
यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा |
बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् |
बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः || ३८ ||
अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु |
ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् |
बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम् || ३९ ||
स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम् |
ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः |
पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः || ४० ||
अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः |
प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम् || ४१ ||
अमृतं परमात्मा च ईश्वरः कारणं महत् |
ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः || ४२ ||
इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् |
पत्नीरूपं समास्थाय जगत्कारणमागता || ४३ ||
नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः |
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः || ४४ ||
देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः |
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे || ४५ ||
तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् |
स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः || ४६ ||
मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम् |
देवदेवमिहायातं ममैवोत्पत्तिकारणम् || ४७ ||
अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान् |
उग्र ईशान आत्मा च अजः शंकर एव च || ४८ ||
देवदेवः परं धाम ईशः पशुपतिः पतिः |
जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम् || ४९ ||
गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः |
सार्धं मयैव देवेशं परमात्मानमव्ययम् || ५० ||
ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः |
प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा || ५१ ||
अथ तेषां प्रसन्नो ऽभूद्देवदेवो महेश्वरः |
यथापूर्वं चकाराशु देवतानां तनूस्तदा || ५२ ||
तत एवं प्रवृत्ते तु सर्वदेवनिवारणे |
वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् |
तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम् || ५३ ||
तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत् |
प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम् || ५४ ||
ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् |
ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः || ५५ ||
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् |
पादयोः स्थापयामास स्रग्मालाममितद्युतेः || ५६ ||
साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम् |
सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः || ५७ ||
अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः |
हिमवन्तं महाशैलमिदमाह महाद्युतिः || ५८ ||
श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि |
शर्वेण सह सम्बन्धो यस्य ते ऽभूदयं महान् |
क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम् || ५९ ||
ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत |
त्वमेव कारणं देव येन शर्वादयं मम || ६० ||
प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि |
उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह || ६१ ||
तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः |
उद्वाहः क्रियतां देव इति देवमुवाच ह |
तमाह शंकरो देवं यथेष्टमिति लोकपः || ६२ ||
तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम् |
उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् || ६३ ||
रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च |
मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम् || ६४ ||
चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता |
भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता || ६५ ||
तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते |
शुशुभे देवदेवस्य महेशस्य महात्मनः || ६६ ||
सोमादित्यौ समं तत्र भासयन्तौ महामणी |
सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः |
प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन् || ६७ ||
समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः |
देवनद्यो महानद्यः सिद्धा मुनय एव च || ६८ ||
गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः |
गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः || ६९ ||
तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः |
रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम् || ७० ||
ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः |
पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः || ७१ ||
जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः |
गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः || ७२ ||
ऋतवः षट् समं तत्र नानागन्धसुखावहाः |
उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः || ७३ ||
नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः |
केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः || ७४ ||
विलोलपिङ्गलस्पष्टविद्युल्लेखावभासिता |
कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता || ७५ ||
प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा |
शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता || ७६ ||
प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् |
मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री || ७७ ||
तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः |
पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता || ७८ ||
विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः |
विकम्पयन्ती पवनैर्मनोहरैः सुराङ्गनानामलकावलीः शुभाः || ७९ ||
गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा |
निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाङ्गनाभिः || ८० ||
हंसनूपुरशब्दाढ्या समुन्नतपयोधरा |
चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना || ८१ ||
असितजलदवृन्दध्वानवित्रस्तहंसा विमलसलिलधारापातनम्रोत्पलाग्रा |
सुरभिकुसुमरेणुक्.ल्प्तसर्वाङ्गशोभा गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै || ८२ ||
मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी |
हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा || ८३ ||
विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला |
प्रफुल्लेन्दीवराभोगविलोचनमनोहरा || ८४ ||
पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी |
नवश्यामालताश्यामरोमराजीपरिष्कृता || ८५ ||
चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा |
प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् || ८६ ||
समदालिकुलोद्गीतमधुरस्वरभाषिणी |
चलत्कुमुदसंघातचारुकुण्डलशोभिनी || ८७ ||
रक्ताशोकाग्रशाखोत्थपल्लवाङ्गुलिधारिणी |
तत्पुष्पसंचयमयैर्वासोभिः समलंकृता || ८८ ||
रक्तोत्पलाग्रचरणा जातीपुष्पनखावली |
कदलीस्तम्भचारूरुः शशाङ्कवदना तथा || ८९ ||
पद्मकिञ्जल्कसम्पृक्तपवनाग्रकरैः सुरान् |
प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा || ९० ||
निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना
नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी |
नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां
तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत् || ९१ ||
अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः |
ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती || ९२ ||
ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः |
प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ || ९३ ||
तेन प्रालेयवर्षेण घनेन स हिमाचलः |
अगाधेन तदा रेजे क्षीरोद इव सागरः || ९४ ||
हिमस्थानेषु हिमवान्नाशयामास पादपान् |
साधूपचारान्सहसा कृतार्थ इव दुर्जनः || ९५ ||
प्रालेयपटलच्छन्नैः शृङ्गैः स शुशुभे नगः |
छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः || ९६ ||
पाण्डराणि विशालानि श्रीमन्ति सुभगानि च |
तुङ्गानि चाद्रिशृङ्गाणि सौधानीव चकाशिरे || ९७ ||
तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्गकुलाकुलासु |
प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः || ९८ ||
बहुकुसुमरजोभिरुत्कराङ्गा हिमकणसङ्गसुशीतलाः समीराः |
ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः || ९९ ||
निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताङ्कुरकर्णपूरः |
वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु || १०० ||
तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते |
प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः || १०१ ||
ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराङ्गाः |
मनोभवोद्रेककराः सुराणां सुराङ्गनानां च मुहुः समीराः || १०२ ||
स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः |
ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः || १०३ ||
ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः |
चेतोभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः || १०४ ||
नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि |
चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः || १०५ ||
प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः |
तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे || १०६ ||
हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः |
शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः || १०७ ||
फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः |
कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः || १०८ ||
समदालिकुलोद्गीतलताकुसुमसंचयाः |
परस्परं हि मालत्यो भाषन्त्य इव रेजिरे || १०९ ||
नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः |
रक्तैश्च रक्तानि भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः || ११० ||
हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् |
वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः || १११ ||
वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः |
नानाविहगसंघुष्टा हेमसोपानपङ्क्तयः || ११२ ||
शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः |
समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने || ११३ ||
ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः |
सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः || ११४ ||
कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः |
गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम् || ११५ ||
चीरुवाकविघुष्टानि किंशुकानां वनानि च |
पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे || ११६ ||
तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा |
नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु || ११७ ||
निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च |
प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलो ऽतीव तदा रराज || ११८ ||
श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां
चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः |
तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः
सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः || ११९ ||
पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः |
देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम् || १२० ||
स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः |
शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः || १२१ ||
तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः |
ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः || १२२ ||
वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः |
अभवंस्तटसंघुष्टकलहंसकदम्बकाः || १२३ ||
तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः |
सर्वेषु जज्ञुः शृङ्गेषु भ्रमरावलिसेविताः || १२४ ||
बकुलाश्च नितम्बेषु विशालेषु महीभृतः |
उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः || १२५ ||
इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः |
हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर || १२६ ||
तत एवं प्रवृत्ते तु सर्वभूतसमागमे |
नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम् || १२७ ||
शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा |
पुरं प्रवेशयामास स्वयमादाय लोकधृक् || १२८ ||
ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम् |
हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः |
ददासि मह्यं यद्याज्ञां कर्तव्यो ऽयं क्रियाविधिः || १२९ ||
तमाह शंकरो देवं देवदेवो जगत्पतिः |
यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् |
कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो || १३० ||
ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः |
हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह || १३१ ||
ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितं |
श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः || १३२ ||
यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि |
त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् || १३३ ||
मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः |
सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना |
वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम् || १३४ ||
योगेनैव तयोर्व्यास तदोमापरमेशयोः |
उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् || १३५ ||
इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् |
उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम् || १३६ ||
इति स्कन्दपुराणे नाम त्रयोदशो ऽध्यायः ||