504
अतीताजातयोर्ज्ञानमन्यथाऽविषयं भवेत् ।

द्वयाश्रयं च विज्ञानं तायिना कथितं कथम् ॥ १७८८ ॥

कर्मातीतं च निःसत्त्वं कथं फलदमिष्यते ।

अतीतानागते ज्ञानं विभक्तं योगिनां च किम् ॥ १७८९ ॥

न द्रव्यापोहविषया अतीतानागतास्ततः ।

अध्वसङ्ग्रहरूपादिरूपाद्विभावादेर्वर्त्तमानवत् ॥ १७९० ॥

तत्र भावान्यथावादी भदन्तधर्मत्रातः, स किलाह—धर्मस्याध्वसु वर्त्तमानस्य
भावान्यथात्वमेव केवलं नतु द्रव्यस्येति । यथा सुवर्णद्रव्यस्य कटककेयूरकुण्डलाद्य
भिधाननिमित्तस्य गुणस्यान्यथात्वं न सुवर्णस्य, तथा धर्मस्यानागतादिभावादन्यथा
त्वम् । तथा हि—अनागतभावपरित्यागेन वर्त्तमानभावं प्रतिपद्यते धर्मो, वर्त्तमान
भावपरित्यागेन चातीतभावम्, नतु द्रव्यान्यथात्वं, सर्वत्र द्रव्यस्याव्यभिचारात् ।
अन्यथाऽन्य एवानागतेऽन्यो वर्त्तमानोऽन्योऽतीत इति प्रसज्यते । कः पुनर्भावस्ते
नेष्टः ? । गुणविशेषः, यतोऽतीताद्यभिधानज्ञानप्रवृत्तिः । लक्षणान्यथावादी भदन्त
घोषकः । स किलाह । धर्मोऽध्वसु वर्त्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्प
न्नाभ्यां लक्षणाभ्यामवियुक्तः, यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त एव
मनागतप्रत्युत्पन्नावपि वाच्ये । अस्य ह्यतीतादिलक्षणवृत्तिलाभापेक्षो व्यवहार इति
पूर्वकाद्भेदः । अवस्थान्यथावादी भदन्तवसुमित्रः । स किलाह—धर्मोऽध्वसु वर्त्तमा
नोऽवस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यतेऽवस्थान्तरतो, न द्रव्यतः, द्रव्यस्य त्रि
ष्वपि कालेष्वभिन्नत्वात् । यथा मृद्गुडिका एकाङ्के प्रक्षिप्ता एकमित्युच्यते, शताङ्के
शतं, सहस्राङ्के सहस्रं, तथा कारित्रेऽवस्थितो भावो वर्त्तमानस्ततः प्रच्युतोऽतीत
स्तदप्राप्तोऽनागत इति । अस्य व्यवस्थापेक्षया व्यवहारो यथा मृद्गुडिकायां, नहि
तस्याः स्वभावान्यथात्वं भवति, किं तर्हि ?, स्थानविशेषसम्बन्धात्सङ्ख्याभिद्योतकं
संज्ञान्तरमुत्पद्यते । अन्यथान्यथिको बुद्धदेवः, स किलाह—धर्मोऽध्वसु वर्त्तमानः
पूर्वापरमपेक्ष्यान्योन्य उच्यत इति । यथैका स्त्री माता चोच्यते दुहिता चेति । अस्य
पूर्वापरापेक्षो व्यवहारः, यस्य पूर्वमेवास्ति नापरः सोऽनागतः, यस्य पूर्वमस्ति अपरं
च स वर्त्तमानः, यस्यापरमेव न पूर्वं सोऽतीत, इत्येते चत्वारः सर्वेऽस्तिवादा भाव
लक्षणाऽवस्थान्यथान्यथिकसंज्ञिताः । तत्र प्रथमः परिणामवादित्वात्साङ्ख्यमतान्न भि