519 न्यभूत्वा भवति, तथा सिद्धमनागतं चक्षुर्नास्तीति । अपिच सदाऽवस्थितत्वे संस्का
राणां हेतुफलयोरभावात् दुःसमुदयसत्याभावः, तदभावान्निरोधमार्गयोरपि, ततश्च
सत्यचतुष्टयाभावात्परिज्ञाप्रहाणसाक्षाक्रियाभावना न युज्यन्ते, तदभावाच्च फलस्थानां
प्रतिपन्नकानां च पुद्गलानामभाव इति सकलमेव प्रवचनं निरुध्यत इति नातीतादि
वस्तुजातकल्पना साध्वी ॥ १८५२ ॥
अतीतानागतज्ञानं विभक्तं योगिनां कथमित्यत्राह—पारम्पर्येणेत्यादि ।
अतीतार्थापेक्षया कार्यतां गतम्, अनागतापेक्षया कारणताम् । विकल्पानुगता
त्मभिरिति । सविकल्पैरित्यर्थः । तत्त्वतोऽविषयैरिति । आविष्टाभिलापैर्ज्ञानैः स्व
लक्षणस्याविषयीकरणात् । तत्—तस्मात् । हेतुफलयोः सन्ततिं भूतां भाविनीं
चाश्रिता अतीतादिदेशना योगिनामपरिशुद्धानां प्रवर्त्तन्ते । भगवतस्तु तथागतस्य
शुद्धलौकिकमपि ज्ञानं नास्ति, नित्यसमाहितत्वात्सर्वाविद्याप्रहाणेन । विकल्पस्य चा
विद्यास्वभावत्वात् । यदाह— विकल्पः स्वयमेवायमविद्यारूपतां गतः । स्वाकारं
बाह्यरूपेण यस्मादारोप्य वर्त्तते ॥ इति तस्य पूर्वप्रणिधानपुण्यज्ञानसम्भारसाम
र्थ्यादवाप्तचिन्तामणिसदृशात्मभावस्यानाभोगेनैव देशनाः प्रवर्त्तन्ते ॥ १८५३ ॥
॥ १८५४ ॥ १८५५ ॥ १८५६ ॥
लोकायतपरीक्षा ।
अनाद्यन्तमित्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह—यदीत्यादि ।