57

शालि+आदि के गुण कथन

शालीनां मधुरत्वशीतलगुणाः पाके लघुत्वात्तथा ।
पित्तघ्नाः कफवर्द्धनाः प्रतिदिनं सृष्टातिमूत्रास्तु ते ।
प्रोक्ता व्रीहिगुणाः कषायमधुराः पित्तानिलघ्नास्ततो ।
नित्यं वद्धपुरीषलक्षणयुताः पाके गुरुत्वान्विताः ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.

कुधान्यों के गुण कथन

उष्णा रूक्षतराः कषायमधुराः पाके लघुत्वाधिकाः ।
श्लेष्मघ्नाः पवनातिपित्तजनना विष्टंभिनस्सर्वदा ॥
श्यामाकादिकुधान्यलक्षणमिदं प्रोक्तं नृणामश्नतां ।
सम्यग्वैदलशाकसद्रवगणेष्वत्यादरादुच्यते ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

द्विदल धान्य गुण

रूक्षाः शतिगुणाः कषायमधुरास्सांग्राहिका वातलाः ।
सर्वे वैदलकाः कषायसहिताः पित्तासृजि प्रस्तुताः ॥
उक्ताः सोष्णकुलुत्थकाः कफमरुद्व्याधिप्रणाशास्तु ते ।
गुल्माष्ठींलयकृत्प्लिहाविघटनाः पित्तासृगुद्रेकिणः ॥ २२ ॥