63

पंचलवणगिण का गुण

कुक्कुठ्या समसूरपत्रलवणी युग्ममर्णी राष्ट्रिका ।
पंचैते लवणीगणा जलनिधेस्तीरं सदा संश्रिताः ।
वातध्नाः कफपित्तरक्तजननाश्शोषावहा दुर्जरा ।
अश्मर्यादिविभेदनाः पटुतरा मूत्राभिषंगे हिताः ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

पंचबृहती गणका गुण

व्याघ्री चित्रलता बृहत्यमलिनादर्कोप्यधोमानिनी--।
त्येताः पंचबृहत्य इत्यनुमताः श्लेष्मामयेभ्यो हिताः ॥
कुष्ठघ्नाः क्रिमिनाशना विषहराः पथ्या ज्वरे सर्वदा ।
वार्ताकः क्रिमिसंभवः कफकरो मृष्टोतिवृष्यस्तथा ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

पंचवल्ली गुण

तिक्ता बिंबलताच या कटुकिका मार्जारपाती पटो-
लात्यंतोत्तमकारवेल्लिसहिता पंचैव वल्य स्मृताः ॥
पित्तघ्नाः कफनाशनाः क्रिमिहराः कुष्ठे हिता वातलाः
कासश्वासविषज्वरप्रशमना रक्ते च पथ्यास्सदा ॥ ३८ ॥