64

भावार्थः--The Hindi commentary was not digitized.

गृध्रादिवृक्षज फलशाकगुण ।

गृध्रापाटलपाटलीद्रुमफलान्यारेवतीनेत्रयोः ।
कर्कोठ्यामुशलीफलं वरणकं पिण्डीतकस्यापि च ॥
रूक्षस्वादुहिमानि पित्तकफनिर्णाशानि पाके गुरू--।
ण्येतान्याश्वनिलावहान्यतितरां शीघ्रं विषघ्नानि च ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

पीलू आदि मूलशाक गुण

पीलूष्मार्द्रकशिग्रुमूललशुनप्रोद्यत्पलाडूंषणा--।
द्येलाग्रंथिकपिप्पलीकुलहलान्युष्णानि तीक्ष्णान्यपि ।
शाकेषूक्तकरीरमप्यतितरां श्लेष्मानिलघ्नान्यमू-
न्यग्नेर्दीपनकारणानि सततं रक्तप्रकोपानि च ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

आम्रादि अम्लफल शाकगुण

कूष्मांडत्रपुषोरुपुष्पफलिनी कर्कारुकोशातकी ।
तुंबीबिंबलताफलप्रभृतयो मृष्टाः सुपुष्टिप्रदा ॥
श्लेष्मोद्रेककरास्सुशीतलगुणा पित्तेऽतिरक्ते हिताः ।
किंचिद्वातकरा बहिर्गतमलाः पथ्यातिवृष्यास्तथा ॥ ४१ ॥
20
  1. पुन्नागवृक्षे रोहिष तृणे.