69

अथ जलवर्गः ।

पृथ्वीगुणबाहुल्य भूमिकां लक्षण व वहांका जलस्वरूप ।

स्थिरतरगुरुकृष्णश्यामलाखोपलाढ्या ।
बृहदुरुतृणवृक्षा स्थूलसस्यावनी स्यात् ॥
क्षितिगुणबहुलात्तत्राम्लतामेति तोयं ।
लवणमपि च भूमौ क्षेत्ररूपं च सर्वं ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

जलगुणाधिक्य भूमि एवं वहांका जलस्वरूप ।

शिशिरगुणसमेता संततो यातिशुक्ला ।
मृदुतरतृणवृक्षा स्निग्धसस्या रसाढ्या ॥
जलगुणबहुतेयं भूस्ततः शुक्लमंभो ।
मधुररससमेतं मृष्टमिष्टं मनोज्ञम् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

वाताधिक्य भूमि एवं वहांका जलस्वरूप ।

परुषविषमरूक्षाबभ्रुकापोतवर्णा ।
विरसतृणकुसस्या कोटरप्रायवृक्षा ॥
पवनगुणमयी स्यात्सा मही तत्र तोयं ।
कटुक खलु कषायं धूम्रवर्णं हि रूपम् ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.