71

जलका स्पर्श व रूप दोष ।

खरतरमिह सोष्णं पिच्छिलं दंतचर्व्यं ।
सुविदित जलसंस्थं स्पर्शदोषप्रसिद्धम् ॥
बहलमलकलंकं शैवलात्यंतकृष्णं ।
भवति हि जलरूपे दोष एवं प्रतीतः ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

जलका, गंध, रस व वीर्यदोष ।

भवति हि जलदोषोऽनिष्टगंधस्सुगंधो ।
विदितरसविशेषोप्येष दोषो रसाख्यः ॥
यदुपहतमतीवाध्मानशूलप्रसेकान् ।
तृषमपिजनयेत्तत् वीर्यदोषभिपाकं ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

जलका पाक दोष ।

यदपि न खलु पीतं पाकमायाति शीघ्रं ।
भवति च सहसा विष्टंभिपाकाख्य दोषः ॥
पुनरथकथितास्तु व्यापदः षड्विधास्सत् ।
प्रशमनमिह सम्यक्कथ्यते तोयवासः ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

जलशुद्धि विधान ।

कतकफलनिघृष्टं वातसीपिष्टयुक्तं ।
दहनमुखविपक्वं तप्तलोहाभितप्तं ॥
दिनकरकरतप्तं चंद्रपादैर्निशीथे ।
परिकलितमनेकैश्शोधितं गालितं तत् ॥ १२ ॥