79

अथ मूत्रवर्गः ।

अष्ट मूत्रगुण

गोऽजामहिष्याश्वखरोष्ट्रहास्ति--।
शस्ताविसंभूतमिहाष्टभेदम् ॥
मूत्रं क्रिमिघ्नं कटुतिक्तमुष्णम् ।
रुक्षं लघुश्लेष्ममरुद्विनाशि ॥ ३५ ॥

क्षार गुण

क्षारस्सदा मूत्रगुणानुकारी ।
कुष्ठार्बुदग्रंथिकिलासकृच्छ्रान् ।
अर्शांसि दुष्टव्रणसर्वजंतू--।
नाग्नेयशक्त्त्या दहतीह देहम् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

द्रवद्रव्यों के उपसंहार

एवं द्रवद्रव्यगुणाः प्रतीताः ।
पानानि मान्यानि मनोहराणि ॥
युक्त्यानया सर्वहितानि तानि ।
ब्रूयाद्भिषग् भक्षणभोजनानि ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुपानाधिकारः

अनुपानविचार ।

इत्थं द्रवद्रव्यविधिं विधाय ।
संक्षेपतः सर्वमिहानुपानम् ॥
वक्षाम्यहं सर्वरसानुपानं ।
मान्यं मनोहारि मतानुसारि ॥ ३८ ॥