तांबूल भक्षण गुण

सौख्यं भाग्यं सौरभं सुप्रसादं ।
कांतिं प्रल्हादं कामुकत्वं सगर्वं ॥
सौख्यं सौंदर्यं सौमनस्यं सुरूपं ।
नित्यं सर्वेषामंगरागः करोति ॥ १४ ॥
कांतिं संतोषं सद्रवत्वं मुखस्य ।
व्यक्तं वेद्यं भूषणं भूषणानाम् ॥
रागं रागित्वं रोगनाशं च कुर्यात् ।
पूज्यं तांबूलं शुद्धिमाहारकांक्षाम् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.