87

तांबूल भक्षण गुण

सौख्यं भाग्यं सौरभं सुप्रसादं ।
कांतिं प्रल्हादं कामुकत्वं सगर्वं ॥
सौख्यं सौंदर्यं सौमनस्यं सुरूपं ।
नित्यं सर्वेषामंगरागः करोति ॥ १४ ॥
कांतिं संतोषं सद्रवत्वं मुखस्य ।
व्यक्तं वेद्यं भूषणं भूषणानाम् ॥
रागं रागित्वं रोगनाशं च कुर्यात् ।
पूज्यं तांबूलं शुद्धिमाहारकांक्षाम् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

ताम्बूल सेवन के लिये अयोग्य व्यक्ति ।

तत्तांबूलं रक्तपित्तज्वरार्तः ।
शोषी क्षीणस्सद्विरिक्तोऽतिसारी ॥
क्षुत्तृष्णोन्मादातिकृच्छ्राभिभूतः ।
पीत क्षीरस्संत्यजेन्मद्यमत्तः ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

जूता पहिनने, व पादाभ्यंगके गुण ।

सोपानत्कस्संचरेत्सर्वकालं ।
तेनारोग्यं प्राप्नुयान्मार्दवं च ॥
पादाभ्यंगात्पाददाहप्रशांतिं ।
निद्रासौख्यं निर्मलां चापि दृष्टिम् ॥ १७ ॥