91

शैलाद्यारोहण निषेध

शैलान्वृक्षान्दुष्टवाजीद्विपेंद्रा--।
न्नारोहेद्वा ग्राहनक्राकुर्लोर्मिः ॥
तीव्रस्रोतो वाहिनी वारिधीन्वा ।
गाहेत्तान्यत्पल्वलस्थं न तोयं ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

पापादिकार्यों के निषेध ॥

यद्यत्पापार्थं यच्च पैशून्यहेतु--।
र्यद्यल्लोकानामप्रियं चाप्रशस्तं ॥
यद्यत्सर्वेषामेव बाधानिमित्तम् ।
तत्तत्सर्वं वर्जनीयं मनुष्यैः ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

हिंसादिके त्याग ।

हिंसासत्यं स्तेयमोहादि सर्वं ।
त्यक्त्वा धीमांश्चारुचारित्रयुक्तः ॥
साधून्संपूज्य प्राज्यवीर्याधियुक्ता--।
नारोग्यार्थी योजयेद्योगराजान् ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

वृष्याधिकारः ।

कामोत्पत्ति के साधन ।

चित्ताल्हादः कांतिमन्मानसानि ।
प्रोद्यत्पुष्पोद्भासि वल्लीगृहाणि ॥
चक्षुस्पर्शश्रोत्रनासासुखानि ।
प्राथेणैतत्कामिनां कामहेतु ॥ ३० ॥