93

भावार्थः--The Hindi commentary was not digitized.

वृष्य सक्तू ।

सक्तून्मिश्रान्क्षीरसंतानिकान्वा ।
माषाणां वा चूर्णयुक्तं गुडाढ्यम् ॥
जग्ध्वा नित्यं सप्ततिं कामिनीनां ।
यायाद्वृद्धोप्यश्रमेणैव मर्त्यः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

वृष्य गोधूमचूर्ण ।

गोधूमानां चूर्णमिक्षोर्विकारैः ।
पक्वं क्षीरेणातिशीतं मनोज्ञं ॥
आज्येनैतत्भक्षयित्वांगनानां ।
षष्ठिं गच्छेदेकवारं क्रमेण ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

वृष्य रक्ताश्वत्थादियोग ।

रक्ताश्वत्थत्वग्विपक्वं पयो वा ।
यष्टीचूर्णोन्मिश्रितं शर्कराढ्यं ॥
पीत्वा सद्यस्सप्तवारान्व्रजेद्वा ।
निर्वीर्योपि प्रत्यहं कामतप्तः ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.