116
तस्तद्विकारानचिरेण हंति ।
चतुष्टयेनैव बलेन शत्रून् ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

वैद्य की प्रधानता ।

पादैस्त्रिभिर्भासुरसद्गुणाढ्यो ।
वैद्यो महानातुरमाशु सौख्यं ॥
सम्प्रापयत्यागमदृष्टतत्वो ।
रत्नत्रयेणैव गुरुस्स्वशिष्यम् ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

वैद्यपर रोगीका विश्वास ।

अथातुरो मातृपितृस्वबंधून् ।
पुत्रान्समित्रोरुकलत्रवर्गान् ॥
विशंकते सर्वहितैकबुध्दौ ।
विश्वास एवात्र भिषग्वरेऽस्मिन् ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

रोगीके प्रति वैद्यका कर्तव्य ।

तस्मात्पितेवात्मसुतं सुवैद्यो ।
विश्वासयोगात्करुणात्मकत्वात् ॥
सर्वप्रकारैस्सतताप्रमत्तो ।
रक्षेन्नरं क्षीणमथो वृषार्थम् ॥ ४५ ॥