131

वातरक्त का निदान, संप्राप्ति व लक्षण ।

विदाहिरससंयुतान्यतिविदाहिकाले भृशं ।
निषेव्य कटुभोजनान्यतिकटूष्णरूक्षाण्यपि ॥
रथाश्वतरवाजिवारणखरोष्ट्रवाहादिकां ।
श्चिरं समधिरुह्य शीघ्रमिह गच्छतां देहिनाम् ॥ २१ ॥
विदाहकृतदुष्टशोणितमिहांततः पादयोः ।
करोति भृशमास्यशोफमखिलाङ्गदुःखावहम् ॥
सवातरुधिरेण तोदनविभेदनास्पर्शनै--।
र्विशोषणविशोषणौर्भवत एव पादौ नृणां ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तकफयुक्त व त्रिदोषज वातरक्तका लक्षण ।

सपित्तरुधिरेण सोष्णमृदुशोफदाहान्वितौ ।
शरीरतरकण्डुनौ गुरुघनौ च सश्लेष्मणा ॥
सपित्तकफमारुतैरभिहते च रक्ते तथा ।
भवंति कथितामया विहितपादयोः प्राणिनाम् ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.