132

क्रोष्टुकशीर्ष लक्षण ।

स्थिरप्रबलवेदनासहितशोफमत्यायतं ।
करोति निजजानुनि प्रथिततीव्रसत्क्रोष्टुक--॥
शिरःप्रतिममित्यनेकविधवातरक्तामया ।
यथार्थकृतनामकाः प्रतिपदं मया चोदिताः ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

वातरक्त असाध्य लक्षण ।

स्फुटं स्फुटति भिन्नसासृतरसं तथा जानुत--।
स्तदेतदिह वातशोणितमसाध्यमुक्तं जिनैः ॥
यदेतदिह वत्सराननुगतं च तद्याप्यमि--।
त्यथोत्तरमिह क्रियां प्रकटयामि सद्भेषजैः ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

वातरोगचिकित्सावर्णनकी प्रतिज्ञा ।

त एव तनुभृद्गणस्य सुखसंपदां नाशकाः ।
स्फुरद्विषमनिष्टुराशनिविषोपमा व्याधयः ॥
महाप्रलयवातोपमशरीरवातोद्भवा ।
मया निगदितास्ततस्तु विधिरुच्यते तद्गतः ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.