133

आमाशयगतवातरोगचिकित्सा ।

अथ प्रकुपितेऽनिले सति निजामसंज्ञाशये ।
प्लुतं सलवणोष्णतोयसहितं हितं पाययेत् ॥
ससधैंवसुखोष्णतैलपारीदिग्धगात्रं नरं ।
कुधान्यसिकतादिसोष्णशयने तदा स्वेदयेत् ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहपान विधि ।

त्रिरात्रमिह पाययेन्मृदुतरोदरं पित्तत--।
स्तथैव कफतोपि मध्यममिहैव पंचान्हिकम् ॥
स्ववातकृतनिष्ठुरोरुखरकोष्ठमप्यादरा--।
द्दिनान्यपिच सप्त सर्वविधिषु क्रमोऽयं स्मृतः ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहपान के गुण ।

विशेषनिशिताग्नयोऽधिकबलाः सुवर्णोज्वलाः ।
स्थिराभिनवधातवः प्रतिदिनं विशुद्धाशयाः ॥
दृढेंद्रियशतायुषः स्थिरवयस्सुरूपास्सदा ।
भवंति भुवि संतत्तं घृतमिदं पिबंतो नराः ॥ २९ ॥