140

भावार्थः--The Hindi commentary was not digitized.

सर्वशरीरगत वातचिकित्सा ।

समस्ततनुमाश्रितं पवनमुग्रमास्थापनैः ।
प्रवृद्धमनुवासैनरिह जयेद्यथोक्तक्रमात् ॥
निरूह इति सर्वदोषहरणात्तथास्थापनं ।
वयस्थितिनिमित्ततोऽर्थवशतो निरुक्तं मया ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुवासनबस्तिका प्रधानत्व ।

अथान्नमनुवासनादनुवसन्न दुष्यत्यपि ।
प्रधानमनुवासनं प्रकटितं पुराणैः पुरा ॥
तथोभयमपीह बस्तियुतनेत्रसल्लक्षण--।
द्रवप्रवरभेषजामयवयप्रमाणैर्ब्रुवे ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिज्ञा ।

जिनप्रवचनांबुधेर्विदितचारुसंख्याक्रमा--।
दिहापि गणनाविधिः प्रतिविधास्यते प्रस्तुतः ॥
विचार्य परमागमादधिगतो बुधैर्गृह्यते ।
सुखग्रहणकारणादुरुतरार्थसंक्षेपतः ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.