166
आध्मानशूलमललोचनकृष्णताति--।
श्वासोरुकासविषमोष्मककंपनानि ॥ ५३ ॥
स्तब्धातिसुप्ततनुतातिहिमाप्रियत्व--।
निद्राक्षतिश्वसनसंभवलक्षणानि ॥
वातज्वरे सततमेव भवंति तानि ।
ज्ञात्वानिलघ्नमचिराद्विचरेद्यथोक्तम् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तज्वरलक्षण ।

तृष्णाप्रलापमददाहमहोष्मताति--।
मूर्च्छाभ्रमाननकटुत्वविमोहनानि ॥
नासास्यपाकरुधिरान्वितपित्तमिश्र--।
निष्ठीवनातिशिशिरप्रियतातिरोषः ॥ ५५ ॥
विड्भेदपीतमलमूत्रविलोचनाति--।
प्रस्वेदनप्रचुररक्तमहातिसाराः ॥
निश्वासपूतिरिति भाषितलक्षणानि ।
पित्तज्वरे प्रतिदिनं प्रभवंति तानि ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

कफज्वर लक्षण ।

निद्रालुतारुचिरतीवशिरोगुरुत्वं ।
मंदोष्णतातिमधुराननरोमहर्षा ॥