151

पित्तप्रकोप का लक्षण ।

आरक्तलोचनमुखः कटुवाक्प्रचण्डः ।
शीतप्रियो मधुरमृष्टरसान्नसेवी ॥
पीतावभासुरवपुः पुरुषोऽतिरोषी ।
पित्ताधिको भवति वित्तपतेः समानः ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तोपशमनविधिः ।

शीतं विधानमधिकृत्य तथा प्रयत्ना--।
च्छीतान्नपानमतिशीतलवारिधारा--॥
पाताभिषेकहिमशीतगृहप्रवेशैः ।
शीतानिलैश्शमयति स्थिरपित्तदाहः ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तोपशमन का बाह्य उपाय ।

तत्राभितोऽभिनवयौवनभूषणेन ।
संभूषिता मधुरवाक्प्रसरप्रगल्भाः ॥
कान्तातिकान्तकठिनात्मकुचैकभारैः ।
पाठीनलोचनशतप्रभवैः कटाक्षैः ॥ ६ ॥
स्निग्धैर्मनोहरतरैर्मधुराक्षराढ्यै--।
स्सम्भाषितैश्शशिनिभाननपङ्कजैश्च ॥
नीलोत्पलाभनयनैर्वनितास्तमाशु ।
संल्हादयेयुरतिशीतकरावमर्षैः ॥ ७ ॥