155

रक्तपित्तका असाध्यलक्षण ।

नीलातिकृष्णमतिपित्तमतिप्रदग्ध--।
मुष्णं सकोथबहुमांसमतिप्रलापम् ॥
मूर्छान्वितं रुधिरपित्तमहेंद्रचाप--।
गोपोपमं मनुजमाशु निहंति वांतम् ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

साध्यासाध्य विचार ।

साध्यं तदूर्ध्वमथ याप्यमधःप्रवृत्तं ।
वर्ज्यं भिषग्भिरधिकं युगपद्विसृष्टम् ॥
तत्रातिपाण्डुमतिशीतकराननांघ्रि--।
निश्वासमाशु विनिहंति सरक्तनेत्रम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

द्राक्षा कषाय ।

द्राक्षाकषायममलं तु कणासमेतम् ।
प्रातः पिबेदुडघृतं पयसा विमिश्रम् ॥
सद्यः सुखी भवति लोहितपित्तयुक्तः ।
शीताभिरद्भिरथवा पयसाभिषिक्तम् ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

कासादिस्वरस ।

कासेक्षुखंडपुटजातिरसं विगृह्य ।
स्नात्वार्द्रवस्त्रसहितश्शिशिरोदकेन ॥