159

अथ प्रदराधिकारः ।

असृग्दरनिदान व लक्षण

संतापगर्भपतनातिमहाप्रसंगात् ।
योन्यां प्रवृत्तमनुतावभिघाततो वा ॥
रक्तं सरक्तमनिलान्वितपित्तयुक्तं ।
स्त्रीणामसृग्दर इति प्रवदंति संतः ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

प्रदर चिकित्सा

नीलांजनं मधुकतण्डुलमूलकल्क--।
मिश्रं सलोध्रकदलीफलनालिकेर--॥
तोयेन पायितमसृग्दरमाशु हंति ।
पिष्टं च सारिवमजापयसा समेतं ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ विसर्पाधिकारः ।

विसर्पनिदान चिकित्सा ।

पित्तात्क्षतादपि भवत्यचिराद्विसर्पः ।
शोफस्तनोर्विसरणाच्च विसर्पमाहुः ॥
शीतक्रियामभिहितामनुलेपनानि ।
तान्याचरेत्कृतविधिं च विपाककाले ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.