202

भावार्थः--The Hindi commentary was not digitized.

बंधन फल ।

स बंधनात् शुध्यति रोहति व्रणो । मृदुत्वमायाति विवेदनो भवेत् ।
अतस्सदा बंधनमेव शोभनं व्रणेषु सर्वेष्वयमेव सत्क्रमः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

व्रण चिकित्सा समुच्चय ।

यथोक्तसद्भेषजवर्गसाधितं । कषायकल्काज्यतिलोद्भवादिकं ।
विधीयते साधनसाध्यवेदिना । विधानमत्यद्भुतदोषभेदतः ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

शुद्ध व रूढ व्रणलक्षण ।

स्थिरो निरस्रावपरो विवेदनः । कपोतवर्णान्तयुतोऽतिमांसलः ॥
व्रणस्स रोहत्यतिशुद्धलक्षणः । समस्सवर्णो भवति प्ररूढवान् ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रमेहविमुक्त लक्षण ।

यदा प्रमेही विशदातितिक्तकं । सरूक्षसक्षारकदुष्णमूत्रकम् ॥
कदाचिदल्पं विसृजेदनाविलं । तदा भवेन्मेहविहीनलक्षणम् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.