203

प्रमेह पिडिका का उपसंहार ।

एवं सर्वमुदीरितं व्रणमिमं ज्ञात्वा भिषक्छोधनैः ।
शोध्यं शुद्धतरं च रोपणयुतैः कल्कैः कषायैरपि ॥
क्षाराण्यौषधशस्त्रकर्मसहितैर्यो येन साध्यो भवे-
त्तेनैवात्र विधीयते विधिरयं विश्वामयेष्वादरात् ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

कुष्ठरोगाधिकार ।

कुष्ठं दुष्टसमस्तदोषजनितं सामान्यतो लक्षणैः ।
दोषाणां गुणमुख्यभेदरचितैरष्टादशात्मान्यपि ॥
तान्यत्रामयलक्षणैः प्रतिविधानाद्यैः सरिष्टक्रमैः ।
साध्यासाध्यविचारणापरिणतैर्वक्ष्यामि संक्षेपतः ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

कुष्ठकी संप्राप्ति ।

आचारतोऽपथ्यनिमित्ततो वा, दुष्टोऽनिलः कुपितपित्तकफौ विगृह्य ।
यत्र क्षिपत्युछ्रितदोषभेदात्तत्रैव कुष्ठमतिकष्टतरं करोति ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

कुष्ठका पूर्वरूप.

प्रस्वेदनास्वेदनरोमहर्षा--स्सुप्तत्वकृष्णरुधिरातिगुरुत्वंकडूः ॥
पारुष्यविस्पंदनरूपकाणि । कुष्ठे भविष्यति सति प्रथमं भवंति ॥ ६० ॥
34
  1. न्यात्मकै इति पाठांतरं ।