227
लिहेदिदं षट्पलसर्पिरुत्तमं । यकृत्प्लिहाध्मानमहोदरेष्वपि ॥
सकासगुल्मोर्द्ध्वमरुत्प्रपीडिता--। त्युदासमुद्वर्तनिवारणं परम् ॥ १७१ ॥

भावार्थः--The Hindi commentary was not digitized.

बद्ध व स्राव्युदरचिकित्सा ।

विबद्धसंस्राव्युदरेऽपि वामतो । विपाट्य नाभेश्चतुरंगुलादधः ॥
तदांत्रमाकृष्य निरीक्ष्य रोधनं । व्यपोह्य सिव्यादचिराद्बहिर्व्रणम् ॥ १७२ ॥
प्रवन्महांत्रं रजतेन कीलये--। च्छ्रितं पयः पातुमिहास्य दापयेत् ॥
सुखोष्णतैलप्रकटावगाहनं । विधाय रक्षेत्परिपाटितोदरम् ॥ १७३ ॥

भावार्थः--The Hindi commentary was not digitized.

जलोदर चिकित्सा ।

जलोदरे तैलविलिप्तदेहिनं । सुखोष्णतोयैः परिषिक्तमातुरम् ॥
पटेन कक्ष्यात्परिवेष्टितोदरम् । यथोक्तदेशं व्यथयेदधारया ॥ १७४ ॥

भावार्थः--The Hindi commentary was not digitized.

उदरसे जल निकालने की विधि ।

निधाय नाडीं तनुधारयान्वितां । क्रमादिहाल्पाल्पजलं निषेचयेत् ॥
न चैकवारं निखिलं सृजेत्तृषा । तीव्रातिमूर्च्छाज्वरदाहसंभवात् ॥ १७६ ॥