195

पिटिका+ओंके अन्वर्थ नाम ।

शराविकाद्याः प्रथितार्थनामकास्सविद्रधिश्चापि भवेत्सविद्रधिः ॥
सरक्तविस्फोटवृतालजी मता--प्युपद्रवान् दोषकृतान् ब्रवीम्यहम् ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

कफप्रेमहका उपद्रव ।

अरोचकाजीर्णकफप्रसेकता--प्रपीनसालस्यमथातिनिद्राः ॥
समक्षिकासर्पणमास्यपिच्छिलं । कफप्रमेहेषु भवंत्युपद्रवाः ॥ २२ ॥

अर्थः--The Hindi commentary was not digitized.

पैत्तिक प्रमेहके उपद्रव ।

समेढ्रमुष्कक्षतबस्तितोदनं । विदाहकृच्छूलपिपासिकाम्लिकम् ॥
ज्वरातिमूर्च्छामदपाण्डुरोगताः । सपित्तमेहेषु भवंत्युपद्रवाः ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.

वातिकप्रमेहके उपद्रव ।

सहृद्ग्रहं लौल्यमनिद्रया सह । प्रक्वम्पशूलातिपुरीषबंधनम् ।
प्रकासहिक्काश्वसनास्थशोषणं । सवातमेहेषु भवंत्युपद्रवाः ॥ २४ ॥