234

वातरोग में हित ।

साग्नियानगुरुसंवरणानि । ब्रम्हचर्यशयनानि मृदूनि ॥
धान्ययूषसहितानि खलानि । प्रस्तुतान्यनिलरोगिषु नित्यम् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

वातरोग में हित ।

आज्यतैलयुतभक्षणभौज्यो--। ष्णावगाहपरिषेककरीषैः ॥
स्वेदनान्यतिसुखोष्णसुखानी--। त्येवमाद्यनिलवारणमिष्टम् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

तिल्वकादि घृत ।

तिल्वकाम्लपरिपेषितकल्कं । बिल्वमात्रमवगृह्य सुदंती ॥
क्षीरकंचुकमिति त्रिवृतारव्या--। न्यक्षमात्रपरिमाणयुतानि ॥ १५ ॥
आढकं दधिफलत्रयजात--। क्वाथमाढकमथापि घृतस्य ॥
प्रस्थयुग्ममखिलं परिपक्वं । वातिनां हितविरेचनसर्पिः ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

अणुतैल ।

पीलुकोपकरणानि तिलानां । खण्डखण्डशकलानि विधाय ॥
क्वाथयेद्बहुतरोदकमध्ये । तैलमुत्पतितमत्र गृहीत्वा ॥ १७ ॥