239

शुद्ध व मिश्रवातचिकित्सा ।

शुद्धवातहितमेतदशेषं । मिश्रितेष्वपि च मिश्रितमिष्टम् ॥
दोषभेदरसभेदविधिज्ञो । योजयेत्प्रतिविधानविशेषैः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

पक्षाघात अर्दितवात चिकित्सा ।

पक्षघातमपि साधु विशोध्या--। स्थापनाद्यखिलरोगचिकित्सा ॥
संविधाय विदितार्दितसंज्ञम् । स्वेदनैरुपचरेदवपीडैः ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

आर्दितवात के लि+ए कासादि तैल ।

काशदर्भकुशपाटलबिल्व । क्वाथभागयुगलैकसुदुग्धम् ॥
तैलमर्धमखिलं परिपक्कं । सर्वथार्दितविनाशनमेतत् ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

गृध्रसी प्रभृतिवात रोग चिकित्सा ।

गृध्रसिप्रभृतिवातविकारा--। त्रक्तमोक्षणमहानिलरोग--॥
प्रोक्तसर्वपरिकर्मविधानैः । साधयेदुरुतरौषधयोगैः ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

कोष्ठगतवातचिकित्सा ।

कोष्ठजानपि महानिलरोगान् । कुष्टपत्रलवणादिघृतैर्वा ॥
वस्तिभिर्विविधभेषजयोगैः । साधयेदनिलरोगविधिज्ञः ॥ ४२ ॥