275

भावार्थः--The Hindi commentary was not digitized.

सुखोष्णैतेलन निषेचनं हितं । गुदे यदि स्यात्क्षतेवदना नृणां ॥
तथानिलघ्नौषधपक्वभाजने । सबाष्षिकेप्यासनमिष्टमादरात् ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

स्वेदन ।

सवक्रनाडीगतबाष्पतापनं । हितं शयानस्य गुदे नियोजयेत् ॥
तथैवमभ्यक्तशरीरमातुरं । सुखोदकेष्वप्यगाहयेद्भिषक् ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.

भगंदरघ्न उपनाह ।

सुतैलदुग्धाज्यविपक्वपायसं । ससैंधवं वातहरौषधान्वितम् ॥
सपत्रवस्त्रैर्निहितं यथासुखं । भगंदरस्याहुरिहोपनाहनम् ॥ ६२ ॥