278

वृद्धि उपदंश आदिके वर्णन की प्रतिज्ञा ।

अतः परं वृध्युपदंशश्लीपद--। प्रतीतवल्मीकपदापचीगल--॥
प्रलंबगण्डार्बुदलक्षणैस्सह । प्रवक्ष्यते ग्रंथिचिकित्सितं क्रमात् ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

सप्त प्रकारकी वृषणवृद्धि ।

क्रमाच्च दोषै रुधिरेण मेदसा । प्रभूतमूत्रांत्रनिमित्ततोऽपि वा ॥
सनामधेया वृषणाभिवृद्धयो । भवंति पुंसामिह सप्तसंख्यया ॥ ७३ ॥

भावार्थः--The Hindi commentary was not digitized.

वृद्धि संप्राप्ति ।

अथ प्रवृत्तोन्यतमोऽनिलादिषु । प्रदुष्टदोषः फलकोशवाहिनीं ॥
समाश्रितोऽसौ पवनः समंततः । करोति शोफं फलकोशयोरिव ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.

वात, पित्त, रक्तज वृद्धि लक्षण ।

मरुत्प्रपूर्णः परुषो महान्परः । सकण्टकः कृष्णतरोऽतिवेदनः ॥
स एव शोफोऽनिलवृद्धिरुच्यते । ज्वरातिदाहैः सह पित्तरक्तजा ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.

कफ, मेदजवृद्धि लक्षण ।

गुरुस्थिरो मंदरुजोग्रकण्डुरो । बृहत्करो यः कफवृद्धिरुच्यते ॥
महान् मृदुस्तालफलोपमाकृतिः । स तीव्रकण्डूरिह मेदसा भवेत् ॥ ७६ ॥