263

भावार्थः--The Hindi commentary was not digitized.

पैत्तिकाश्मरीलक्षण ।

कफस्सपित्ताधिकतामुपागतः । करोति रक्तासितपीतसप्रभाम् ।
अरुष्करास्थीप्रतिमामिहाश्मरीं । रुणध्यसौ स्रोतसि मूत्रमास्थिता ॥ ८ ॥
स्वमूत्रघातादिहबस्तिरूष्मणा । विदह्यते पच्यत एव संततम् ।
सदाहदेहो मनुजस्तृषाहतः । सदोष्मवातैरपि तप्यते मुहुः ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

वार्तिकाश्मरीलक्षण ।

बलास एवाधिकवातसंयुतो । यथोक्तमार्गादभिवृद्धिमागतः ॥
करोति रूक्षासितकण्डकाचितां । कदंबपुष्पप्रतिमामथाश्मरीम् ॥ १० ॥
तया च बस्त्याननरोधतो नरो । निरुद्धमूत्रो बहुवेदनाकुलः ॥
असह्यदुःखश्शयनासनादिषु । प्रतिक्रियाभावतया स धावति ॥ ११ ॥
स नाभिमेढ्रं परिमर्दयन्मुहुः । गुदेंऽगुलिं निक्षिपति प्रपीडया ॥
स्वदंतयत्रं प्रविधाय निश्चलं । पतत्यसौ भुग्नतनुर्धरातले ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.