265

अश्मरी का कठिनसाध्य लक्षण ।

अथाश्मरीष्वद्भुतवेदनास्वसृ--। ग्विमिश्रमूत्रं बहुकृच्छ्रसंगतम् ॥
व्रणैश्च जातासु तथा विधानवि--। द्विचार्य तासां समुपाचरेत्क्रियाम् ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

अश्मरी का असाध्य लक्षण ।

स्वनाभिमुष्कध्वजशोफपीडितं । निरुद्धमूत्रातिरुजार्तमातुरम् ॥
विवर्जयेत्तत्सिकतां सशर्करा--। महाश्मरीभिः प्रविघट्टितं नरम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

सदाश्मरी वज्रविषाग्निसर्पवत् । स्वमृत्युरूपो विषमो महामयः ॥
सदौषधैः कोमल एव साध्यते । प्रवृद्धरूपोऽत्र विभिद्य यत्नतः ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

वाताश्मरी नाशकघृत ।

इहाश्मरी संभवकाल एव तं । यथोक्तसंशोधनशोधितं नरं ॥
प्रपाययेदश्यमहांतकाश्मभि--। श्शतावरी गोक्षुरपाटलीद्रुमैः ॥ २० ॥
त्रिकंटकोशीरपलाशशाकजैः । सवृक्षचक्रैस्सबलामहाबलैः ॥
कपोतवंकैर्बृहतीद्वयान्वितैः । यवैः कुलुत्थैः कतकोद्भवैः फलैः ॥ २१ ॥