वाताश्मरी नाशकघृत ।

इहाश्मरी संभवकाल एव तं । यथोक्तसंशोधनशोधितं नरं ॥
प्रपाययेदश्यमहांतकाश्मभि--। श्शतावरी गोक्षुरपाटलीद्रुमैः ॥ २० ॥
त्रिकंटकोशीरपलाशशाकजैः । सवृक्षचक्रैस्सबलामहाबलैः ॥
कपोतवंकैर्बृहतीद्वयान्वितैः । यवैः कुलुत्थैः कतकोद्भवैः फलैः ॥ २१ ॥
266
सकोलबिल्वैर्वरणाग्निमंथकैः । सुवर्चिकासैधवहिंगुचित्रकैः ॥
कषायकल्कैःपरिपाचितं घृतं । भिन्नत्ति तद्वातकृतां महाश्मरीम् ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.