270

भावार्थः--The Hindi commentary was not digitized.

उत्तरबस्त्यर्थ उपवेशनविधि ।

स्वजानुदघ्नोन्नतसुस्थिरासने । व्यवस्थितस्यादृतकुक्कुटासने ॥
नरस्य योज्यं वनिताजनस्य च । तथैवमुत्तानगतोर्ध्वपादितः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

नभोगतेऽप्युत्तरबस्तिगद्रवे । सतैलनिर्गुण्डिरसेंदुलिप्तया ॥
शलाकया मेढ्रमुखं विघट्टय--। न्नधश्च नाभेः प्रतिपीडयेद्दृढम् ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

अगारधूमादिवर्ति ।

अगारधूमोत्पलकुष्ठपिप्पली । सुसैंधवैः सद्बृहतीफलद्रवैः ॥
विलिप्तवर्तिं प्रविवेशयेद्बुधः । सुखेन सद्यो द्रवनिर्गमो भवेत् ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

उत्तरबस्तिका उपसंहार ।

समूत्ररोगानतिमूत्रकृच्छतां । सशर्करानुग्ररुजाश्मरीगणान् ॥
समस्तबस्त्याश्रयरोगसंचयान् । विनाशययेदुत्तरबस्तिरुत्तमः ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.