274

भावार्थः--The Hindi commentary was not digitized.

भगंदर छेदन क्रम ।

यदैवमन्योन्यगतागतिर्भवेत् । तदैकदा छेदनमिष्टमन्यथा ॥
क्रमक्रमेणैव पृथक्पृथग्गतिं । विदारयेद्यन्न बृहद्णं भवेत् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

बृहत्व्रणका दोष व उसका निषेध ।

बृहद्व्रणं यच्च भवेद्त्भगंदरम् । तदैव तस्मिन्मलमूत्ररेतसाम् ॥
प्रवृत्तिरुक्ता महती गतिस्ततो । भिषग्विमुख्यैरपि शस्त्रकर्मवित् ॥ ५७ ॥
ततो न कुर्याद्विवृतं व्रणान्वितं । भगंदरं तत्कुरुते गुदक्षतिम् ॥
स शूलमाध्मानमथान्यभावतां । करोति वातःक्षतवक्त्रनिर्गतः ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

अतः प्रयत्नादतिशोफभेदतां । विचार्य सम्यग्विदधीत भेषजम् ॥
विधीयते छेदनमर्धलांगल--। प्रतीतगोतीर्थसमाननामकम् ॥ ५९ ॥