302
पवनकृतविशेषादानने स्वच्छमल्पं ।
त्वचि भवति सुकृष्णं मंडलं व्यंगसंज्ञम् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

माषतिलम्यच्छ लक्षण.

पवनरुंधिरजातं माषवन्माषसंज्ञम् ।
समतलमतिकृष्णं सत्तिलाभं तिलाख्यं ॥
सितमसितमिहाल्पं वा महत् नीरुजं तं ।
मुखगतमपरं तद्देहजं न्यच्छमाहुः ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

नीलिका लक्षण.

तदिह भवति गात्रे वा मुखे नीलिकाख्यं ।
बृहदुरुतरकृष्णं पित्तरक्तानिलोत्थम् ॥
तदनुविहितरक्तोन्मोक्षणालेपनाद्यैः ।
प्रशमनमिह सम्यग्योजयेदात्मबुध्या ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

तारुण्यपिडका लक्षण.

तरुणपिटकिकास्ताः श्लेष्मजाः यौवनोत्थाः ।
बहलविरलरूपाः संभवंत्याननेऽस्मिन् ॥
मतियुतमुनिभिस्साध्याः कफध्नैः प्रलेपै--।
रनवरतमहानस्यप्रयोगैरनेकैः ॥ ५७ ॥