324

भावार्थः--The Hindi commentary was not digitized.

सुषिरलक्षण व चिकित्सा.

रुजाकरश्शोफयुतस्सवेष्टजो । बलासरक्तप्रभवः कफावहः ॥
भवेत्स्वनाम्ना सुषिरं तमामयं । रुजांजनैर्लोध्रघनैः प्रसारयेत् ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

महासुषिरलक्षण व चिकित्सा.

पतंति दंताः परितः स्ववेष्टतः । विशीर्यते तालु च तीव्रवेदना ॥
भवेन्महाख्यस्सुषिरोरुसर्वजः । स साध्यते सर्वजितौषधक्रमैः ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.

परिस्त्रदरलक्षण.

विशीर्य मांसानि पतंति दंततो । बलासपित्तक्षतजोद्भवो गदः ।
असृक्स निष्टीवति दुष्टवेष्टकः । परिस्रयुक्तो दर इत्युदीरितः ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.

उपकुशलक्षण.

सदाहवेष्टः परिपक्वमेत्यसौ । प्रचालयत्युद्गतदंतसंततिम् ।
भवेत्स दोषो कुशनामको गदः । सपित्तरक्तप्रभवोतिदुःखदः ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

40
  1. रद इति पाठातरं ।