326

उपकुश में गण्डूष व नस्य.

सपिप्पलीसैंधवनागरान्वितैः । ससर्षपैस्सोष्णजलप्रमेलितैः ॥
सदैव गण्डूषविधिर्विधीयतां । घृतं स नस्येन फलेन पूजितम् ॥ ७७ ॥

भावार्थः--The Hindi commentary was not digitized.

वैदर्भचिकित्सा.

निशातशस्त्रेण विदर्भसंज्ञितं । विशोधयेत्तद्दशनोरुवेष्टकम् ॥
निपातयेत्सारमनंतरं ततः । क्रियास्सुशीताः सकलाः प्रयोजयेत् ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

खलवर्धन चिकित्सा.

अथाधिकं दंतमिहोद्धरेत्ततो । दहेच्च मूलं क्रिमिदंतवत्क्रियाम् ॥
विधाय सम्यग्विदधीत भेषजं । गलामयानां दशसप्तसंख्यया ॥ ७९ ॥

भावार्थः--The Hindi commentary was not digitized.

रोहिणी लक्षण.

गलातिसंशोधनतत्परांकुरै--। स्सदोषलिंगैरुपलक्षिताः पृथक् ॥
पृथक्समस्तैरनिलादिभिस्तत--। स्तथासृजः स्यादिह रोहिणी नृणाम् ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.