328

वलपलक्षण.

कफः करोत्युच्छ्रितशोफमायतं । जलान्नरोधादधिकं भयंकरम् ॥
विवर्जयेत्तं वलयं गलामयं । विषाग्निशस्त्राशनिमृत्युकल्पितम् ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

महालसलक्षण.

कफानिलाभ्यां श्वयथुं गलोत्थितं । महालसाख्यं बहुवेदनाकुलम् ॥
सुदुस्तरश्वासयुतं त्यजेद्बुधः । स्वमर्मविच्छेदनमुग्रविग्रहम् ॥ ८६ ॥

भावार्थः--The Hindi commentary was not digitized.

एकवृंदलक्षण.

बलासरक्तप्रभवं सकंडुरं । स्वमन्युदेशे श्वयथुं विदाहिनं ॥
मुदुं गुरुं वृत्तमिहाल्पवेदनम् । तमेकवृंदं प्रविदार्य साधयेत् ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.

वृन्दलक्षण.

गले समुत्थं श्वयथुं विदाहिनं । स्ववृत्तमत्युत्कटपित्तरक्तजम् ॥
समुन्नतं वृन्दमतिज्वरान्वितम् । भयंकरं प्राणहरं विवर्जयेत् ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.

शतघ्नी लक्षण.

सतोदभेदप्रचुरांचितांकुरां । घनोन्नतां वर्तिनिभां निरोधिनीम् ।
त्रिदोषलिंगां गलजां विवर्जयेत् । सदा शतघ्नीमिह सार्थनामिकाम् ॥ ८९ ॥