334

भावार्थः--The Hindi commentary was not digitized.

मुखरोग नाशक धूप.

तथैव दंती किणिही सहिंगुदी । सुरेंद्रकाष्ठैः सरलैश्च धूपयेत् ॥
सगुग्गुलुध्यामकमांसिकागुरु--। प्रणीतसूक्ष्मामरिचैस्तथापरैः ॥ १११ ॥

भावार्थः--The Hindi commentary was not digitized.

मुखरोगनाशक योगांतरं

अयं हि धूपः कफवातरोगनुत् । घृतेन युक्तः सकलान् जयत्यपि ॥
सदैव जातीकुसुमांकुरान्वितः । कषायगोमूत्रगणो मुखामयान् ॥ ११२ ॥

भावार्थः--The Hindi commentary was not digitized.

भृगराजादि तैल.

सुभृंगराराजामलकाख्यया रसं । पृथक् पृथक् प्रस्थमिदं सतैलकम् ।
पयश्चतुःप्रस्थपलं च यष्टिकं । पचेदिदं नस्यमनेकरोगजित् ॥ ११३ ॥

भावार्थः--The Hindi commentary was not digitized.

सहादितैल.

सहारिमेदामलकाभयासनैः । कषायकल्कै रजनीकटुत्रिकैः ।
विपक्वतैलं पयसा जयत्यलं । स नस्यगण्डूषविधानतो गदान् ॥ ११४ ॥