352

क्लिष्टबर्त्म लक्षण.

समं सवर्णं मृदुवेदनान्वितं । सताम्रवर्णाधिकमेव वा सदा ॥
स्रवेदकस्माद्रुधिरं स्ववर्त्मतो । भवेदिदं क्लिष्टविशिष्टवर्त्मकम् ॥ १८६ ॥

भावार्थः--The Hindi commentary was not digitized.

कृष्णकर्दम लक्षण.

उपेक्षणात्क्लिष्टमिहात्मशोणितं । दहेत्ततः क्लेदमथापि कृष्णताम् ॥
व्रजेत्ततः प्राहुरिहाक्षिभिन्नकाः । स्ववेदकाः कृष्णयुतं च कर्दमम् ॥ १८७ ॥

भावार्थः--The Hindi commentary was not digitized.

श्यामलवर्त्म लक्षण.

सबाह्यमंतश्च यदाशु वर्त्मनः । प्रसूनकं श्यामलवर्णकान्वितम् ॥
वदंति तच्छ्यामलवर्त्मनामकम् । विशेषतः शोणितपित्तसंभवम् ॥ १८८ ॥

भावार्थः--The Hindi commentary was not digitized.

क्लिन्नवर्त्म लक्षण.

यदा रुजं शूनमिहाक्षिबाह्यतः । सदैवमंतः परिपिच्छिलद्रवम् ॥
स्रवेदिह क्लिन्नविशिष्टवर्त्मकम् । कफास्रगुत्थं प्रवदति तद्विदः ॥ १८९ ॥

भावार्थः--The Hindi commentary was not digitized.